पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नारायणीय स्किन्धः -- १ 5 विदधते कुर्वन्ति । अथवा सुखगतिः नाहि, तां न विद्यते । अस्मिल्लो- के त्वत्कृपयैव त्वद्भक्ता भूत्वा सञ्चरन्तो जमा बहवः श्रूयन्ते । आये विष्णो!- मय्यपि तादृशीं कृपां कुर्विति भावः || ३ || के ते जना इत्यत आह -- मुनियाँढा रूडा जगति खलु गूढात्मगतयो भवत्पादाम्भोजस्मरणविरुजो नारदुखाः । चरन्तीश ! स्वैरं सततपरिनिर्भातपरचित्- सदानन्दाद्वैतमसरपरिमग्नाः किमपरम् ॥ ४ ॥ सुनीति । श्रीनारदो मुखमादिर्येषां ते मुनिप्रौढाः मुनिश्रेष्ठाः जगति रूढाः प्रसिद्धाः खलु | किन्तु गूढालगतयः गूढोऽस्मदादिभिरशक्यदर्शन आत्मा गतिश्च येषां, ते तथा। अंथवा आत्मगतिर्मनोगतिः देवैरप्यविदितनिग्रहानुग्रहाद्यभिप्रायवि- शेषाः । अथवा आत्मन गतिर्ज्ञानम् | भवत्पादाम्भोजस्मरणेन विरुजो विगतस- कलपीडाः, ते खलु जगति स्वैरं चरन्ति । कथमित्यत आह - सततेति । सततं सर्वदैव परिनिर्भातम् अनुभवपदेवीमारूढं परचित्सदानन्दं सच्चिदानन्दं परं ब्रह्म, तदेवोपाधिलयादद्वैतं, तस्य यसरे संलवे परिमाः तदेकीभूताः सन्तः सञ्चरन्ति । हे ईश ! अतः परं किं तेषां प्रार्थनीयमवशिष्टम् । तद्न्मामध्यनुगृह्णीष्वेति भावः ॥ ननु श्रीनारदादयो मत्कृपया ज्ञाननिष्ठाः सन्तो विधूतलेशाः स्वैरं चरन्तीति ज्ञानमेव प्रार्थ्यताम् । किमज्ञानजनितक्लेशनिरसने संशयितया भक्त्याशङ्कां परिहरन् भक्ति प्रार्थयते--- भवद्भक्तिः स्फीता भवतु मम सैव मशमये- दशेषलेशौघं न खलु हृदि सन्देहकणिका | न चेद् व्यासस्योक्तिस्तव च वचनं नैगमवचो भवेन्मिथ्या रथ्यापुरुषवचनप्रायमखिलम् ॥ ५ ॥ भवद्भक्तिरिति । मम स्फीता भवद्भक्तिर्भवतु । सैव ममाशेषक्लेशौवं प्रशमये- १. 'त इयर्थः । अ' क. पाठः, २. 'श्रेष्ठाः' क. पाठः, ३. 'यद्रा' क. पाठः ४, 'त्मग' क. पाठ: ५. 'दमा' क. पाठः ६. 'मिति भा' क. पाठः, ७. 'शा: सब क. पाठः,