पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/३६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नारायणीये [स्कन्धः -- १२ फलशालित्वलक्षणमुख्यकर्तृत्वं विना प्रकृतिमुखेनेश्वरस्य जगत्कर्तृत्वमिति भावः । हे कृष्ण ! य एवं, तस्मै ते नमोऽस्तु ॥ ५ ॥ ३६२ ननु केयं मूलप्रकृतिरित्याशङ्कय सदसत्त्वाभ्यामनिर्वचनीया विद्यावियात्मि- केश्वरस्य शक्तिरित्याह --- सत्त्वेनासत्तया वा न च खलु सदसत्त्वेन निर्वाच्य रूपा धत्ते यासावविद्या गुणफणिमतिवद् विश्वव्यावभासम् । विद्यावं सेव याता श्रुतिवचनलवैर्यत्कृपास्यन्दलाभे संसारारण्यटनपरशुतामेति तस्मै नमस्ते ॥६॥ सत्त्वेनेति । यस्येयमविद्या तज्ज्ञाने सति निवर्तते । अतः सतीति वक्तुम- शक्या, सत्तास्फूर्त्यनुपपते: । नासती च, एकैव सती असती चेति नितरामनु- पपन्ना विरोधात् । अतोऽविद्या सत्त्वेनासत्तया सदसत्त्वेन वा न निर्वाच्यरूपा निष्कृष्य बक्कुमशक्यं स्वरूपं यस्याः सा तथा । तर्हि नास्तीति चेद्, नेत्याह- असाविति । 'अहमज्ञ' इति सर्वानुभवसिद्धतया तदनवकल्पनमशक्यमिति भावः । यासावविद्या गुणफणिमतिवद् रज्जुसर्पभ्रान्तिवद् विश्वदृश्यस्य सकलजगतः अवभासं जीवस्य संसारदुःखनिवासभूतं शरीराद्यहम्ममाभिमानादिरूपं धत्ते करोतीत्यर्थः । यस्येश्वरस्य कृपायाः स्यन्द: प्रवाहः, तस्य लाभे सति सैव अविद्या श्रुतिवचनलवैः वेदान्तवाक्यलेशैः, श्रवणमात्रेणेत्यर्थः, विद्यावं याता विद्यारूपिणी भूत्वा संसाररूपस्यारण्यस्य वनस्यातिनिशिततया सद्यः शीघ्रं त्रुटने खण्डने परशुतामेति, तस्मै नमस्ते ॥ ६ ॥ ... एवं प्रकृत्यधिष्ठितस्य ब्रह्मणो जगत्कारणत्वमुक्तम् । अथ तदनन्यत्वेन जगदात्मत्वमुच्यते ---- भूषासु स्वर्णवद् वा जगति घटशरावादिके मृत्तिकावत् तत्त्वे सञ्चिन्त्यमाने स्फुरति तदधुनाप्यद्वितीय वपुस्ते । स्वप्नद्रष्टुः प्रबोधे तिमिरलयविधौ जीर्णरज्जोच यद् विद्यालाभे तथैव स्फुटमपि विकसेत् कृष्ण ! तस्मै नमस्ते ॥ ७ ॥ १. 'रश' क. ग. पाठ: त्मकत्व. ल. ग. पाठः,