पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/३६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

+ दशकम् - ९८] सत्यज्ञानादिस्वरूपाद् ब्रह्मणों जगदुत्पनिरूपणम् । ३३१ सर्वाशे ईश्वरस्यानाशे इति किं न स्यादित्यत्राह-गम्भीर इति । गम्भीरे अप्रतर्थे तमसि सुषुतौ जायमान इति । अयमभिप्रायः -- सर्वसहारे सुषुप्तौ सति सकलुजगन्निदानभूतमज्ञानं तमश्शब्दवाच्यं न लयं गच्छति, अन्यथा जगतः पुनरुत्पत्त्यभावात् सुखमहमस्वाप्तं न किञ्चिद्वेदिषभित्युत्थितस्य परामर्शानुषप- श्वेति । एवञ्च तदापि वितिमिरः नित्योदितानस्तमितप्रकाशरूपतयाज्ञानसाक्षि- त्वेन भासि | द्रष्टुभावे दृयासिद्धेरित्यभिप्रायः । य एवम्भूतः, तस्मै नमस्ते ॥४॥ नन्वीश्वरस्य जगत्कारणत्वमसिद्धं वादिविप्रतिपत्तेरियाशङ्कायां संज्ञाभेद एव विप्रतिपत्ति: न संज्ञिनीयाह - "" शब्दब्रह्मेति कर्मेत्यणुरिति भगवन् ! काल इत्यालपन्ति त्वामेकं विश्वहेतुं सकलमयतया सर्वथा कल्प्यमानम् | 'वेदान्तैर्यत् तु गीतं पुरुषपरचिदात्माभिधं तत् तु तत्वं मेक्षामात्रेण मूलप्रकृतिविकृतिकृत् कृष्ण ! तस्मै नमस्ते ॥५॥ शब्दब्रह्मेति । त्वामेकमेव शब्दब्रह्मेत्यादिभिः शब्दः विश्वहेतुं जगत्कार- णमालपन्ति वादिनः । शब्दब्रह्म जगत्कारणमिति केचिदालपन्ति, केचित् कर्म जीवादृष्टमिति, अन्ये परमाणुरिति, अपरे काल इति । एषां शब्दानां त्वमेक एवाभिधेय इति भावः । अत्र हेतुः - सकलमयतया तब सर्वात्मकत्वेन । सर्वथा तत्तदर्शनानुसारेण शब्दब्रह्मादिरूपेण तवैव कल्प्यमानत्वादित्यर्थः । सिद्धान्तमाह — वेदान्तैरिति । वेदान्तैस्तु यत् पुरुषपरचिदात्माभिधं तत्त्वं, तत्तु .प्रेक्षामात्रेण मूलप्रकृतिविकृतिकृद् गीतमित्यन्वयः । अत्र पुरुष: 'मायायां चिम्चि- तस्त्वम्' (श्लो. ४) इति प्रामुक्तंः, पर: मायासम्बन्धरहितः, चिदिति शुद्धचैतन्यम्, 'आत्मा सर्वानुगतः । पुरुषादिशब्दा अभिधा यस्य तत् तथा । ततु तदेव तत्त्वं परं ब्रह्म प्रेक्षामात्रेण मायाप्रेरणमात्रेण मूलप्रकृतिर्माया, तस्या विकृतिः कार्य जगत्, तत् करोति तथा | ननु प्रकृतेः कार्य कथं ब्रह्म करोतीति । उच्यते । यथा राजा प्रेक्षणमात्रेण सन्निधिं प्राप्तया प्रतीहार्या कर्म करोति, तद्वत् स्वसमवेतक्रिया- ।