पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/३६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नारायणीये [स्कन्धः-- १२ नो तिर्यञ्चमिति । ते तवेश्वस्य रूपं परत्रह्म नो तिर्यश्चं न पशुपक्ष्यादि- कमाहुः आगमास्तद्विदो वा । न मर्त्यै मनुजं सुरं देवम् असुरं न स्त्रियमिति । स्त्रीपु- नपुंसकभेदेन त्रिप्रकारं शरीरमुच्यते । द्रव्यं विषयान् । कर्म कर्मेन्द्रियाणि | जातिं ब्राह्मणत्वादि। गुणं ज्ञानेन्द्रियाणि । सद् अन्तःकरणम् । असद् अव्यक्तम् । देवानां परिच्छिन्नत्वेन देहादीनां जडत्वेन चैतानि न ते स्वरूपमाडु:, किन्तु निगमेनैवं निषेधे सति यत्तच्छिष्टम् अवधिभूतं स्यात् । अत एव निगमशतैः उपनिषद्भिः कृच्छ्रेण वाच्यवाचक सम्बन्धं विना लक्षणावृत्तित आवेद्यमानं प्रतिपाद्यमानं परमसुख- मयं परमानन्दरूपं भाति च । अत्र निषेधवाक्यस्य मुख्यार्थस्य निषेधे बाधितत्वात् तद्वधिभूतेऽर्थे या वृत्तिः, सा लक्षणावृत्तिः । तथा प्रतिपाद्यमानं सद् अहं ब्रह्मा- स्मीति निष्कर्मतया त्वत्स्वरूपभूतं परं ब्रह्म प्रकाशत इत्यर्थः ॥ ३ ॥ ▪ अथ निषेधशेषस्याशेषत्वमशेषसाक्षित्वेन प्रतिपादयति - मायायां विम्बितस्त्वं सृजसि-महदहङ्कारतन्मात्रभेदै - भूतग्रामेन्द्रियाद्यैरपि सकलजगत् स्वमसङ्कल्पकल्पम् | भूयः संहत्य सर्वे कमठ इव पदान्यात्मना कालशक्त्या गम्भीरे जायमाने तमसि वितिमिरो भासि तस्मै नमस्ते ॥ ४ ॥ मायायामिति । स्वस्मात् पृथगवस्थितायां मायायां चिच्छक्त्या प्रतिवि- म्बितस्त्वं महत्तत्त्वेन अहङ्कारभेदै: राजसतामससात्त्विकैः शब्दस्पर्शरूपरसगन्धा इति पञ्चतन्मात्रभेदैः भूतादिभिः एकादशेन्द्रियैः 'आदिशब्देन प्राणादिभिरपि सकलं जगत् सृजसि | स्वसङ्कल्पकल्पमिति आगमापायित्वात् स्वमसङ्कल्पवदयं जाग्रत्प्रपञ्चो मिथ्येत्यर्थः । भूयः पुनश्च यथा कूर्मविरं विहृत्य भूयः स्वपदानि स्वस्मिन् संहृत्य तूष्णीं भवति, एवं कालशक्त्या सर्व संहत्य आत्मना स्वस्वरूपै- जैव भासि । एवंञ्चादावन्ते चासत्त्वात् प्रपञ्चस्य मध्येऽपि मिथ्यात्वमुक्तम् । ईश्वरस्यादिमध्यान्तेषु प्रपञ्चप्रकाशकत्वेन सत्त्वात् साक्षित्वं नित्यत्वं चोक्तम् । ननु