पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/३६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ईशकम् - ९८] सत्यज्ञाना दिस्वरूपाद् ब्रह्मणो जगदुत्पस्यादिनिरूपणम् । इति चेद्, नेत्याह—योऽहमा देति । अस्माद् आत्मन्यविद्याकल्पिताज्जगतः उत्तीर्ण व्यतिरिक्त रूपं यस्य ॥ १ ॥ एवमीश्वरस्य जगत्कारणत्वमुपपाद्य अनन्तरं जगदनुग्राहकत्वमाह- जन्माथो कई नाम स्फुटमिह गुणदोषादिकं वा न यस्मिन् लोकानामृतये यः स्वयमनुभजते तानि मायानुसारी | बिभ्रच्छक्कीररूपोऽपि च बहुतररूपोऽवभात्य तस्मै कैवल्यधान्ने पररसपरिपूर्णाय विष्णो ! नमस्ते ॥ २ ॥ जन्मेति । जन्म श्रीकृष्णाद्यवतारः अथो अनन्तरं कर्म कंसहननादि नाम जन्मकर्मनिमित्तम् | गुणदोषा: निग्रहानुग्रहादयः | आदिशब्देन पुत्रमित्रादयः । एतानि यस्मिन् स्फुटं परमार्थतो न सन्ति, तथापि लोकानामूतये जगदनुग्रहाय मायानुसारी तानि जन्मकर्मादीनि स्वयम् अनन्याधीनस्वभावः सन् अनुभजते अङ्गीकरोति अपिच शक्ती: विद्याविद्याज्ञानैश्वर्यादिलक्षणाः बिभ्रत् स्वयमरूपो निर्गु णोऽपि स्थावरजङ्गमभेदेन सुरनरतिर्यगादिभेदेन च बहुतररूपश्चावभाति, अतो- अद्भुतात्मा आश्चर्य स्वरूपः तस्मै जगदनुग्राहकाय पररसेन परमानन्देन परिपूर्णाय अत एव कैवल्यधात्रे मोक्षप्रदाय ॥ २ ॥ , ननु बहुत ररूपवे कथमरूपत्वमित्याशङ्कय तत्स्वरूपस्य सर्वद्वैतनिषेधाव- धित्वेनोपपादयति- saver Calle नो तिन मयै न च सुरमसुरं न स्त्रियं नो एमांसं तु द्रव्यं कर्म जाति गुणमपि सदसद् वापि ते रूपमाहुः । शिष्टं यत् स्यान्निषेधे सतिं निगमशतैर्लक्षणावृत्तितस्तत् कुच्छेणावेद्यमानं परमसुखमयं भाति तस्मै नमस्ते ॥ ३ ॥