पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/३६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५८' नारायणीये परि विष्णुलोके विष्णुमन्दिरं, तदुपरि शिवलोके शिवमन्दिरमिति । तत्रस्थाः सृष्टिस्थितिसंहारकर्तारस्त्रिमूर्तयः । तेभ्योऽप्यूर्ध्वं तु ब्रह्माण्डाद् बहिः । अत एव मायाविकृतयः महदहङ्कारादयः षोडशविकाराः, तैर्विरहितः शुद्धसत्त्वगुणमयो वैकुण्ठलोको भाति । तत्र वैकुण्ठलोके कारणाम्भति आवरणोदके पशुपकुंले नन्द- गेहेऽपि त्वं शुद्धसत्त्वैकरूपी तत्स्वच्छतयावरणाभावात् सच्चिद्ब्रह्माद्वयात्मा सच्चि- दानन्दाद्वयब्रह्मवपुरेव त्वम् । अतः सर्वरोगान्मां पाहि मोचयेति ॥१०॥ इत्युत्तमभक्तिप्रार्थनावर्णनं मार्कण्डेयस्य प्रलयप्रदर्शनवर्णनं, परमेश्वरप्रसादवर्णनं च सप्तनवतितमं दशकम् । SANG एवं स्तुत्यस्य विष्णोर्निष्कलत्वं प्रसाध्य तद्रूपेण स्तौति - यस्मिन्नेतद् विभातं यत इदमभवद् येन चेदं य एतद् योऽस्मादुत्तीर्णरूपः खलु सकलमिदं भासितं यस्य भासा । यो बाचां दूरदूरे पुनरपि मनसां यस्य देवा मुनीन्द्रा नो विद्युस्तत्त्वरूपं किमु पुनरपरे कृष्ण ! तस्मै नमस्ते ॥ १ ॥ . ३ यस्मिन्निति । हे कृष्ण | तस्मै सच्चिदानन्दस्वरूपाय ते नमः । ननु स्तूयतां, किं नमस्कारमात्रेणेत्यत्राह -- यस्येति । देवा मुनीन्द्रा अपि यस्य तत्त्व- रूपं, तदिति सर्वनाम, सर्व च ब्रह्म, तस्य भावस्तत्त्वं ब्रह्मत्वं तद्रूपं न विदुः । के पुनरत्र वयं ज्ञातुं स्तोतुं वेति भावः | दुर्जेयत्वमेवाह --- यो वाचामिति । लौकिकानां वैदिकानामपि वचसां दूरदूरे, वाच्यवाचकसम्बन्धाभावात् । पुनर्मन- सामपि दूरदूरे । अत्र हेतुः –यस्य भासा चिच्छक्त्या सकलमिदं जगद् भासितं प्रकाशितम् । यत्प्रकाशेन लब्बसत्ताकं मनआदि, तेन तत्प्रकाशनमशक्यमित्यर्थः । तर्हि ज्ञातुमशक्यत्वादसदेवेदमित्यत्राह - यस्मिन्निति | यस्मिन्नधिष्ठाने एतद् जगद् विभातं तिष्ठति | यतो निमित्तोपादानकारणभूतादिदं जगदभवत् | येन इद जगद्, चकारादैक्यं याति लीयत इत्यर्थः । अतो जगत्कारणत्वाद् एतद् जगद् यः यद्रूपः ईश्वर एव जगदात्मना भाति । अतो जगदात्मना प्रतीतस्य सिद्धौ न प्रमाणान्तरापेक्षेति भावः । नन्वीश्वरस्य जगदात्मत्वे विकारित्वप्रसङ्ग १. 'पुरभिल्लोके पुरभित्पुरमि' क. ग. पाठः.