पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/३६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पुनश्च बहिरनुपतितः त्वयि पिहिततनौ अन्तर्हित सति स्वामे पुष्पभद्रातीरे माग्वद् यथास्थानं स्थितश्वासीत् । अत्र च मायायाः स्वरूपतः प्रदर्शनस्या- शक्यत्वाद् भगवता कार्यमुखेन दर्शितेति द्रष्टव्यम् ॥ ८॥ अथ विष्णुभक्त्या सन्तुष्टस्य शिवस्यानुग्रहप्रकारमाह- गौर्या सार्धं तद्ग्रे पुरभिदथ गतस्त्वत्मियप्रेक्षणार्थी सिद्धानेवास्य दत्त्वा स्वयमयमजरामृत्युतादीन् गतोऽभूत् । एवं त्वत्सेवयैव स्मररिपुरपि स प्रीयते येन तस्मा न्मूर्तित्रयात्मकस्त्वं ननु सकलनियन्तेति सुव्यक्तमासीत् ॥ ९ ॥ 1 गौर्येति । तस्य मार्कण्डेयस्य अग्रे पुरतः । अस्य स्वयं सिद्धान् स्वतपः- प्रभावेणैव प्राप्तान् अजरामृत्युतादीन्, आदिशब्देन विष्णुमतियशोज्ञानविज्ञानपु राणाचार्यतादीन् वरान् दत्त्वा अयं शिवः गतोऽभूत् । अनेन च विष्णोः सर्वेश्वरत्वं सिद्धमित्याह – एवमिति । त्वं विष्णुः सकलनियन्ता सर्वेश्वर इति सुव्यक्तं निश्चितमासीत् । अत्र हेतु:--मूर्तित्रय्यात्मकस्त्वं नन्विति । मूर्तित्रयी ब्रह्म- विष्णुगिरीशाः तदात्मकः तत्स्वरूपः । अत्र हेतुः – त्वत्सेवयेति । स स्मर- रिपुरपि त्वत्सेवयैव प्रीयते येन तस्माद् विष्णोरेव कार्यनिमित्तमवस्थाभेदों मूर्तित्रयमित्यभिप्रायः ॥ ९ ॥ ( - ननु शिवस्यावस्थाभेद इति किं न स्यादित्याशङ्क्षय स्थानभेदेन विष्णो- स्तेभ्यो व्यतिरेक ऐक्थेऽपि सम्भवतीत्याह------ त्र्यंशेऽस्मिन् सत्यलोके विधिहरिपुरभिन्मन्दिरा प्यूर्ध्वमूर्ध्व तेभ्योऽप्यूर्ध्वं तु मायाविकृतिविरहितो भाति बैकुण्ठलोकः । तत्र त्वं कारणाम्भस्यपि पशुपकुले शुद्धसत्त्वैकरूपी सच्चिद्ब्रह्माद्वयात्मा पवनपुरपते ! पाहि मां सर्वरोगात् ॥१०॥ त्र्यंश इति । त्रयो ब्रह्मविष्णुशिवलोकरूपा अंशा लोकाः यस्मिन् स त्र्यश, तस्मिन् सत्यलोके ऊर्ध्वमूर्ध्वमिति प्रथमं ब्रह्मलोके विधिमन्दिर, तदु-