पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/३५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ द्वादशस्कन्धपरिच्छेदः । मुक्तानां सच्चिदानन्दब्रह्मरूपतया स्थितिः । द्वादशस्था हरेलीला सम्प्रति प्रतिपाद्यते ॥ इदानीं मार्कण्डेयकथाप्रसङ्गेष तस्य तपसा विष्णुमाया शवदर्शनादिचरित्रक- धनमिषेणाधिकारिणो योगत्रयेण ब्रह्म प्राप्तस्य ब्रह्ममात्रतयावस्थानं निरूप्यते- मार्कण्डेय चरायुः स खलु पुनरपि त्वत्परः पुष्पभद्रा- तीरे निन्ये तपस्यन्नतुलसुखरतिः षट् तु मन्वन्तराणि । देवेन्द्रः सप्तमस्तं सुरयुवतिमरुन्मन्मथैर्मोह यिष्यन् योगोष्मनुष्यमाणैर्न तु पुनरशकत् त्वज्जनं निर्जयेत् कः ॥ ५ ॥ मार्कण्डेय इति । स खलु पुनरपि चिरायुद्धे लब्धेऽपि त्वत्परो भगवद्भजन- परोऽभूत् । अत्र हेतुः – अतुलसुखरतिरिति । निरतिशयसुखरूपे त्वद्भजने रतिः श्रद्धा यस्य सः पुष्पमद्रातीरे हिमवदुत्तरपार्श्वे यस्यास्तीरे चित्रशिला नाम शिला भद्रवटो नाम बटश्चास्ति, तस्याः पुष्पभद्रानामनधास्तीरे तपस्यन्नेव षड् मन्वन्त - राणि एकसप्ततिचतुर्युगलक्षणानि निन्थे । देवेन्द्रः सप्तम इति मन्वन्तरेष्विन्द्रादीनां व्यत्यासं दर्शयति । सप्तमे मन्वन्तरे यः सप्तमो देवेन्द्रः सोऽयं तपसा स्वधाम जिवृक्षतीति भिया तं मार्कण्डेयं सुरसुवतिभिः अप्सरोभिः मरुता वासन्तेन मारुतेन मन्मथेन च मोहयिष्यन् योगस्य तपस ऊष्मणा सुष्यमाणैः दयमानैस्तैः सुरयुव- त्यादिभिः न तु पुनरशकत् तं मोहयितुमशक्तोऽभूत् । त्वज्जनं त्वद्भक्तं को निर्ज- येद् न कोऽपि । अहो मोहो देवेन्द्रस्यापीति भावः ॥ ५ ॥ 4 ● मीत्या नारायणाख्यस्त्वमथ नरसखः प्राप्तवानस्य पार्श्व तुष्टया तोधूयमानः स तु विविधवरैलोभितो नानुमेने । द्रष्टुं मायां त्वदीयां किल पुनरवृणोद् भक्तितृप्तान्तरात्मा मायादुःखानभिज्ञस्तदपि मृगयते नूनमाश्चर्यहेतोः ॥ ६ ॥