पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/३५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशकम् - ९७] उत्तमभक्तिप्रार्थनावर्णनम् । लादिष्वपि सममतिः सन् | अनोपायमाह मुच्यमानेति । ऐकाम्यज्ञानबलेन मुच्यमाना अवमानस्पर्धास्यादयो देहाभिमानकृता दोषा यस्यैवम्भूतः सन् त्वाम् अखिलभूतेषु सततं संपूजये । अथवा सममतित्वस्यावान्तरफलमाह • मुच्यमा~ नेति । अवमानादिदोषनाश एवावान्तरफलम् ॥ २ ॥ 11431 एवं समदृष्टयोपासनस्यावधिमाह - त्वद्भावो यावदेषु स्फुरति न विशदं तावदेवं ह्युपास्ति कुर्वन्नैकात्म्यवोधे झटिति विकसति त्वन्मयोऽहं चरेयम् । त्वद्धर्मस्यास्य तावत् किमपि न भगवन् ! प्रस्तुतस्य प्रणाश- स्तस्मात् सर्वात्मनैव प्रदिश मम विभो! भक्तिमार्गे मनोज्ञम् ॥ ३॥ त्वद्भाव इति । एषु दस्युविप्रादिषु सर्वजन्तुष्वपि त्वद्भावः तवान्तर्यामिरू- पेणावस्थानं यावत्कालपर्यन्तं न विशदं स्फुरति न सम्यगनुभवपदवीमवतरति, तात्कालपर्यन्तम् एवं हि पूर्वोक्तप्रकारेणैव उपास्ति कुर्वन् त्यक्तलजश्च चण्डाला- दिभ्योऽप्यन्तर्यामिरूपेणेश्वरोऽत्र वर्तत इति दृश्था नमस्कारादि कुर्वन्नित्यर्थः । ततश्च झात्यैकात्म्यबोधे विकसति सर्वभूतेष्वेक एवात्मेति ज्ञानेऽनुभवरूपे सति अहं त्वन्मयश्चरेयम् । हे भगवन् ! त्वंद्धर्भस्य भागवतधर्मस्यास्य प्रस्तुतस्यारब्धस्य तावद् आदित आरभ्य यावत्समाप्ति किमपि किञ्चिदपि प्रणाशो वैकल्यं न भवति यथा यागादेः । तस्माद् अनुष्ठानादिसौकर्याद् मम मनोज्ञं समीचीनं भक्तिमार्ग प्रेमलक्षणाया भक्तेः साधनरूपं भगवद्ध सर्वात्मना तद्पेक्षिताधिकाराङ्गादिसहितं प्रदिश, मां तत्राधिकारिणं कुर्वित्यर्थः ॥ ३ ॥ आरोग्यहीनो म कुत्रापि कर्मण्यविकारति तदेव प्रार्थयते I तं चैनं भक्तियोगं द्रदयितुमय मे साध्यमारोग्यमायु- दिष्टया तत्रापि सेव्यं तव चरणमहो भेषजायेव दुग्धम् ।