पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/३५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नारायणीचे अथ गुणत्रयवृत्तिजयेन द्वन्द्वोपरमाय त्रैगुण्यविभागमाह -- बैगुण्याद् भिन्नरूपं भवति हि भुवने हीनमध्योत्तमं य- ज्ज्ञानं श्रद्धा च कर्ता वसतिरपि सुखं कर्म चाहारभेदाः । त्वत्क्षेत्रत्वनिषेवादि तु यदिह पुनस्त्वत्परं तत्तु सर्व प्राहुनैर्गुण्यनिष्ठं तदनुभजनतो मञ्जु सिद्धो भवेमम् ॥ १॥ त्रैगुण्यादिति । इह भुवने ज्ञानादि यद् वस्तु तत् सर्वे त्रिगुणमयत्वाद् भिन्नरूपम् अत एव हीनमध्योत्तमं च भवति । तत्र सर्वभूतेष्वात्मन एकत्वज्ञानं सात्विक, पृथक्त्वेन ज्ञानं राजसं, बालादितुल्यं ज्ञानं तामसम् । श्रद्धा चाध्यात्मिकधर्माधर्मविषयतया त्रिधा | कर्ता च वैराग्यरागाज्ञानभेदेन त्रिविधः | बनग्रामद्यूतसदनभेदेन वसतिरपि त्रिधा । आत्मानुभवसुखं विषयसुखं निद्रायुत्थ- सुखमिति तच त्रिविधम् । ईश्वरार्पितकाम्यनिषिद्धभेदेन कर्मापि त्रिविधम् | शुद्धमिन्द्रियप्रेष्ठमशुाचे चेत्याहारद्रव्यमपि त्रिविधम् । एतत् सर्वमीश्वरविषयतया निर्गुणं भवतीत्याह–त्वत्क्षेत्रेति । इह पुनस्त्वत्क्षेत्रत्वान्नषेवादि तु यत् तत् त्वत्परं न फलपरं चेद् भवति, तर्हि तत् सबै नैर्गुण्यनिष्ठं निर्गुणं प्राहुः । तदनुभजनतो मञ्जु झटिति मुक्तो भवेयम् ॥ १ ॥ ८ सम्मति ' श्रीकृष्ण! त्वत्पदोपासनम् ' ( दश. ९०. श्लो. १) इति प्रस्तुतं भागवत धर्ममुपसंहरति द्वाभ्यां - त्वय्येव न्यस्तचित्तः सुखमय विचरन् सर्वचेष्टास्त्वदर्थं त्वद्भक्त: सेव्यमानानपि चरितचरानाश्रयन् पुण्यदेशान् । दस्यौ विशे मृगादिष्वपि च सममतिर्मुच्यमानावमान- स्पर्धास्यादिदोषः सततमखिलभूतेषु सम्पूजये त्वाम् ॥ २ ॥ त्वय्येवेति । सर्वा विहिता अविहिताश्च चेष्टाः कर्माणि त्वदर्थें कुर्व- निति शेषः । त्वद्भक्तैः सम्प्रति सेव्यमानान् चरितचरान् तैरेव पूर्वं सेवितान् | अथवा त्वद्भक्तैः सेव्यमानान् देशान्, तैश्चरितचरान् पुण्यान् पुण्यकर्माणीति विभज्य योजना । दस्यौ नीचे विप्रे उत्तमे सुगादिष्वपि । आदिशब्देन चण्डा-