पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/३५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५० नारायणीय खड्यानेऽपीड तुल्या पुनरसुकरता चित्तचाञ्चल्यहेतो- रभ्यासादाशु शक्यं तदपि वशयितुं त्वत्कृपाचारुताभ्याम् ॥ ७ ॥ [स्कन्व: - ११ - ज्ञानायैवेति । ज्ञानायैव केवलं ज्ञानमेव प्राप्तुम् अतियत्नं बहुमन्याभ्यासं मुनिर्वेदव्यासः अपवदते पुराणेषु तत्र तत्र प्रतिषेधति । किं तु ब्रह्मतत्त्वं सिद्धा- न्तसारमात्रं शृण्वन् युक्त्यानुसन्दधानः गाढम् अतिशयेन त्वादे भक्तिं यः शरण- मयति तस्य मुक्तिः करामे । जीवन्नेव मुक्त इति भावः । इह यमादिसहिते त्वयानेऽपि चित्तस्य चाञ्चल्याद्धेतोरसुकरता दुरनुष्ठेयता तुल्या। तदपि दुष्करमपि ध्यानं त्वंस्कृपया त्वञ्चारुतया श्रीमूर्ते: सौन्दर्येण चाभ्यासादाशु वशयितुं वशीकर्तु शक्यमित्यर्थः ॥ ७ ॥ निर्विण्ण: कर्ममार्गे खलु विषमतमे त्वत्कथादौ च गाढं जातश्रद्धोऽपि कामानयि भुवनपते ! नैव शक्नोमि हातुम् । तद् भूयो निश्चयेन त्वाये निहितमना दोषवुद्धया भजँस्तान् पुष्णीयां भक्तिमेव त्वयि हृदयगते मङ्क्षु नक्ष्यन्ति सङ्गाः ॥ ८ ॥ , निर्विण्ण इति । किञ्च, विषमतमे दुःखभूयिष्ठे कर्ममार्गे स्वर्गादौ निर्विण्णः विरक्तः त्वत्कथादौ जातश्रद्धश्च यद्यपि भवति, तथापि कामान् काम्यमानान् पुत्रमित्र- वित्तादीन् नैव हातुं शक्नोमि । तत् तस्माद् भूयः पुनः पुनः निश्चयेन त्वाय निहितमना भूत्वा दोषबुद्ध्या तान् कामान् भजन् सेवमानः भक्तिमेव पुष्णीयाम् | एवं भक्त्या भजनेन त्वयि हृदयगते सङ्गा विषयश्रद्धाः मञ्जु झटिति नक्ष्यन्ति नाशं गमिष्यन्ति ॥ ८ ॥ भगवद्भजने मनोनिग्रहस्यावश्यकत्वाद् भिक्षुपुरूरवसोनिदर्शनेन चित्तशान्ति • प्रार्थयते द्वाभ्यां - कश्चित् क्लेशार्जितार्थक्षयविमलमतिनुयमानो जनौधैः मागेवं प्राह विमो न खलु मम जनः कालकर्मग्रहा वा । १. 'नू भ' ल. पाठः,