पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/३५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कर्मज्ञानभक्तिमार्गाधिकारिवर्णनम् । -३४९ एतच त्रितयं मनुष्यशरीरसाध्यमिति तत्प्राप्तौ न कालक्षेपः कर्तव्य इत्यभिप्रा- दशकम् – ९६]. येणाह- Handym • ज्ञानं सद्भक्ततां वा लघु सुकृतवशान्मर्त्यलोके लभन्ते तस्मात् तत्रैव जन्म स्पृहयति भगवन् ! नाकगो नारको वा । आविष्टं मां सुदैवाद् अवजलनिधिपोतायिते मर्त्यदेहे त्वं कृत्वा कर्णधारं गुरुमनुगुणवातायितस्तारयेथाः ॥ ५॥ ज्ञानमिति । त्वद्भक्ततां वा लघु अनायासेन | दैवात् सुकृतेन भवजंलनिधी पोतबदाचरिते आविष्टं प्रविष्टं तु तरणोपायविधुरं मां गुरुमुपदेष्टारं कर्णधारं ना- चिकं कृत्वा त्वं वातालयेशः स्वयमनुगुणवातवदाचरन् तारयेथाः पारं नय ॥ ५ ॥ तत्र साधनेषु भक्तिरेव सुगममार्ग इत्याह ---- अव्यक्तं मार्गयन्तः श्रुतिभिरपि नयैः केवलज्ञानलुब्धाः किश्यन्तेऽतीव सिद्धिं बहुतरजनुषामन्त एवाप्नुवन्ति । दूरस्थः कर्मयोगोऽपि च परमफले नन्वयं भक्तियोग- स्त्वामूलादेव हृद्यस्त्वरितमयि! भवत्प्रापको वर्धतां मे ॥ ६ ॥ अव्यक्तमिति | केवलज्ञाने लुब्धाः केवलं ज्ञानलुब्धा वा श्रुतिमिरूप- निषद्भिः नयैः मीमांसोक्तयुक्तिभिरपि अव्यक्तं ब्रह्म मार्गयन्तः विचारयन्तः अतीव क्लिश्यन्ते । बहुतरजनुषामन्त एवं सिद्धिं फलमाप्नुवन्ति । कर्मयोगोऽपि च परमफले परमपुरुषार्थे मोक्षे दूरस्थः कालान्तर एव फलप्रदः क्लेशरूपश्च । पितृ- लोकसत्यलोकावाप्त्यादिरूपेण त्वबान्तरफलेन दूरस्थः । भक्तियोगस्त्वामूलात् श्रवण कीर्तनादिक्रमेणारम्भात् प्रभृत्येव हृद्यः त्वरितं भवत्प्रापकश्च । अयि भगवन् ! मॅम स एव वर्धताम् ॥ ६ ॥ उक्तमर्थ सदाचारप्रमाणेन द्रढयति --- ज्ञानायैवातियत्नं सुनिरपवदते ब्रह्मतत्वं तु शृण्वन् गाढं त्वत्पादभक्ति शरणमयति यस्तस्य मुक्तिः कराग्रे ।