पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/३५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नारायणीये [स्कन्धः -- ११ J अनेन प्रकारेण लभन्ते प्राप्नुवन्ति। ब्रह्मणस्तटस्थलक्षणमाह - विश्वमूलमिति । जग जन्मादिकारणमित्यर्थः । तदुपपादयति- अखिलपदार्थेविति । भिन्नेषु स्वभावतः पृथग्भूतेषु अखिलपदार्थेषु स्वसृष्टेषु कार्येषु अभिन्न कारणरूपेणैकत्वेन स्थितं, कटककुण्डलादौ सुवर्णवत् । ननु तद्वत्सच्चिदानन्दं ब्रह्म स्वसृष्टेषु कार्येषु न दृश्यत इति चेद् दृश्यत एवेत्याह – सत्तेति । येयं मिनेषु घटपटादिषु घटः सन् पटः सन्नित्येकरूपा सत्ता प्रतीयते, या च भिन्नेष्वभिन्ना घटोऽयं पटोऽयमि- ति स्फूर्तिज्ञानमेकरूपं प्रतीयते, यच्च मिन्नेषु सकन्दनादिषु अभिन्नं प्रियत्वम् आनुकूल्यं सुखमिति यावत्, तानि सत्तास्फूर्तिप्रियत्वानि आत्मा स्वरूपं यस्य तदेव ब्रह्मेत्यर्थः । अत्र च भिन्नेष्वभिन्नमित्यनेन कार्यकारणानन्य- त्वोक्तेरद्वितीयत्वमप्युक्तम् । अतः सत्तास्फूर्तिप्रियत्वात्मकमिति च सच्चिदानन्दा- द्वयं ब्रह्मेति स्वरूपलक्षणमपि दर्शितम् । निर्मूलं निष्कारणं नित्यम् । अतस्तत् प्राप्तानां न पुनरावृत्तिरित्यपि सूचितम् ॥ ३ ॥ ननु भक्त्यैव कृतार्था इत्युक्तं प्राकू 'सन्ति श्रेयांसि ' (दश. ९५. लो. ३) इत्या- दिना । किमिदानीं कर्मज्ञानयोगोपादानमित्याशङ्कयाधिकारिभेदा दयाह- ज्ञानं कर्मापि भक्तित्रितयमिह भवस्थापकं तत्र सावद् निर्विण्णानामशेषे विषय इह भवेद् ज्ञानयोगेऽधिकारः । सक्तानां कर्मयोगस्त्वयि हि विनिहितो ये तु नात्यन्तसक्ता नाप्यत्यन्तं विरक्तास्त्वयि च धृतरसा भक्तियोगो ह्यमीषाम् ॥ ४ ॥ S ज्ञानमिति । भवत्प्रापकं मोक्षसाधनम् । तत्र तेषु त्रिषु मध्ये | अशेषे विषये इहामुत्र सकन्दनादौ अमृतादौ इह शरीरे च निर्विण्णानां विरक्तानां ज्ञानयोगेऽधिकारो भवेत् । सक्तानामनिर्विण्णानां हि त्वयि विनिहितैः ईश्वरे समर्पितः कर्मयोगः । ये तु मध्यस्थाः त्वयि ईश्वरे धृतरसा यदृच्छया त्वत्कथादौ जातश्रद्धाश्चेत्यर्थः । तेषाममीषां भक्तियोगः ॥ ४ ॥ १. 'त' ख. पाठः. २. ' षे खलु बिषयरसे ज्ञा' क. पाठ:. ३. 'तु' क. पाठः,