पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/३५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भगवाद्वभूतिवर्णनम् । स्वं हीति | हे उरुमहिमन् ! विश्वमूर्ते ! त्वं हि साक्षात् परं ब्रह्मैवं । सर्वत्र षष्ठीसप्तम्यौ निर्धारणे | अक्षराणां मध्येऽकारः, मन्त्रेषु तारः प्रणवः, स्वमिति योजनीयम् | मुनिध्विति । ब्रह्मर्षिषु भृगुः देवर्षिषु नारदः ॥ १ ॥ ब्रह्मण्यानां बलिस्त्वं ऋतुषु च जपयज्ञोऽसि वीरेषु पार्थो भक्तानामुद्धवस्त्वं बलमसि बलिनां धाम तेजस्विनां त्वम् । नास्त्यन्तस्त्वद्विभूतेर्विक सदतिशयं वस्तु सर्व त्वमेव त्वं जीवस्त्वं प्रधानं यदिह भवहते तन्न किञ्चित् प्रपञ्चे ॥ २ ॥ ब्रह्मण्यानामिति । ब्रह्मण्यानां ब्राह्मणभक्तानाम् । बलिनां तेजस्विनामिति सम्बन्धे षष्ठी | यतस्त्वद्विभूतेरन्तो नास्ति अत एतदवधारयामि | विकसदति - शयं स्फुटप्रतीयमानातिशययुक्तं यद् वस्तु तत् सर्वं त्वमेव । किञ्च, त्वं जीवः, स्वं प्रधानं, प्रकृतिपुरुषौ त्वमेव । अतः प्रकृतिपुरुषात्मके इह अस्मिन् प्रपञ्चे तत् तादृशं किञ्चिदपि नास्ति, यद् भवते त्वद्व्यतिरेकेण प्रतीयते । त्वमेवेदं सर्वमित्यर्थः ॥२॥ 3 उक्तोपासनादावनधिकारिणामीश्वरार्पणेन स्वधर्मानुष्ठानाद् वैराग्यद्वारा मुक्तिरि, त्याह--- धर्म वर्णाश्रमाणां श्रुतिपथविहितं त्वत्परत्वेन भक्त्या कुर्वन्तोऽन्तर्विरागे विकसति शनकैः सन्त्यजन्तो लभन्ते । सत्तास्फूर्तियित्वात्मकमखिलपदार्थेषु भिनेष्वभिनं निर्मूलं विश्वमूलं परममहमिति त्वद्विबोधं विशुद्धम् ॥ ३॥ 1 धर्ममिति | वर्णानामाश्रमाणां च पृथक् पृथक् श्रुतिपथविहितं नित्यनैमि- त्तिकादिरूपं भक्त्या त्वत्परत्वेन ईश्वरार्पिततया कुर्वन्तः शनैरन्तविरागे विकसति • प्रादुर्भूते सति सन्त्यजन्तः विह्नितानि कर्माणि विविना त्यजन्तः परमहंसा भूत्वा विशुद्धं विषयाकारशून्यं त्वद्विषोधं त्वत्स्वरूपभूतं विबोधं परं ब्रह्म परममहं परं ब्रह्मैवाहम् इति.