पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/३५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नारायणीये [स्कन्धः-- ११ स्थरंतु चित्तं परममुखचिदद्वैतरूपे सच्चिदानन्दस्वरूपे ब्रह्मणि वितन्वन् ब्रह्माकारं कुर्वन् अन्यद् ध्यातृध्येयविभागादि नो चिन्तयेयम् | मुहुः यावज्जीवं ब्रह्मैक्यं पुनः पुनः इति अनेन प्रकारेण समुपारूढयोग: भगवदुपासनशीलः भवेयम् ॥ ९ ॥ इत्थं त्वद्धयानयोगे सति पुनरणिमाघसंसिद्धयस्ता दूरश्रुत्यादयोऽपि हाहमहमिक्रया सम्पतेयुर्मुरारे ! | त्वत्सम्माप्तौ विलम्बाबहमखिलमिदं नाद्रिये कामयेऽहं त्वामेवानन्दपूर्ण पवनपुरपते ! पाहि मां सर्वतापात् ॥ १० ॥ इत्थमिति । इत्थम् उक्तप्रकारेण त्वद्धधानमेव योगः पुरुषार्थस्योपायः तस्मिन् सति लाः सत्त्वोत्कर्षजाः अष्टौ संसिद्धयः अष्टैश्वर्याणि दूरश्रवण-दर्शन- त्रिकालज्ञत्वा दिक्षुद्रसिद्धयोऽपि अहमहमिकया सम्पतेयुः । इदमखिलं त्वत्सम्प्राप्तौ विलम्बावहमित्यहं नाद्रिये । किंतु अहम् आनन्दपूर्ण मोक्षरूपं त्वामेव कामये 1 मां सर्वतापात् संसारात् पाहि । पुनरप्यटैश्वर्यादिभिः संसारार्णवे निक्षिप्य भा मां आयेति भावः il इति भक्त्या विशुद्धचित्तस्यैव भगवत्स्वरूपध्यानयोग्यतावर्णनं पञ्चनवतितमं दशकम् । अथोक्तध्यानयोग्यतासिद्ध्यै विश्वमूर्तीशोपासनाय भगवद्विभूर्ति निरूपयति --- त्वं हि ब्रह्मैव साक्षात् परमुरुमहिमनक्षराणामकार- स्तारो मन्त्रेषु राज्ञां मनुरसि मुनिषु त्वं भृगुर्नारदोऽपि । महादी दानवानां पशुषु च सुरभिः पक्षिणां वैनतेयो नागानामस्यैनन्तः सुरसरिदपि च स्रोतसां विश्वमूर्ते ! ॥ १ ॥ 'नाधिकारिता' ख, पाठ, - 'तीर्नि' ख. ग. पाठः { , प्य क. पार्टी..