पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/३४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशकम् - ९५] भक्त्या विशुद्धचित्तस्यैव भगवत्स्वरूपध्यानयोग्यतावर्णनम् । ३४९ ध्यानमिति | समतनुः समकायशिरोग्रीवः सुखबद्धासनः | नास्ति स्वस्तिकादिनियमः । अक्ष्णोर्निमीलने मनोलयः, उन्मीलने मनोविक्षेपः, तदुभया- भावाय मुकुलीकरणेऽक्ष्णोर्नासिकाग्रन्यस्तता स्वयमेव स्यात् । पूरकरेचककुम्भ- कभेदैः प्राणायामैः जितः कफादिदोषनिरसनेन शोधितः पवनपथः वायुसञ्चरण- स्थानं नाडीविवरं येन स तथा चितपद्मं हृदयाम्बुजम् अवाञ्चम् अधोमुखम् ऊर्ध्वाग्रं भावयित्वा तत्कर्णिकायां रविशशिशिखिनः उपरिष्टाद् उत्तरोत्तरं संविचिन्त्य तत्रस्थं वह्निमध्यस्थम् ॥ ७॥ आनील लक्ष्णकेश ज्वलितमकरसत्कुण्डलं मन्दहास- स्यन्दा कौस्तुभश्रीपरिगतवनमालोरुहाराभिरामम् । श्रीवत्सा सुबाहुं मृदुलसदुदरं काञ्चनच्छायचेलं चारुत्निग्धोरुमम्भोरुहललितपदं भावयेयं भवन्तम् ॥ ८ ॥ आनीलेति | अतिशयेन नीला: लक्ष्णाः शिष्टाः केशा यस्य, ज्वलिते मकराकारे सती कुण्डले यस्य, मन्दहासस्य स्य. दो द्रवः तेन आई लिग्धं, कौस्तुभ श्रीभिः परिगतया व्याप्तया वनमालया उरुहारैः हारपटलै: अभिरामं, वक्षोदक्षिणभागे श्रीवत्साख्योऽको यस्य, शोमना दीर्घपीवरा बाहबो यस्य, मृदु लसत् शोभमान- मुदरं यस्य, काञ्चनच्छायचेलं परिहितपीताम्बरं, चारू स्निग्धौ मांसलावूरू यस्य, तं भवन्तं भावये चिन्तयामि ॥ ८ ॥ अथ क्रमात् समाधिभूमिकारोहणप्रकारमाह - सर्वाङ्गेष्वङ्ग ! रङ्गत्कुतुकमतिमुहुर्धारयन्नीश ! चित्तं तत्राप्येकत्र युझे बदनसरसिजे सुन्दरे मन्दहासे । तत्रालीनं तु चेतः परमसुखचिद्द्वैतरूपे वितन्व- भन्यो चिन्तयेयं मुहुरिति समुपारूढयोगो भवेयम् ॥९॥ सर्वाध्विति । रङ्गत्कुतुकं प्राप्तकौतुकं चित्तं सर्वाङ्गेषु अतिमुहुः पुनः पुनः • धारयन् तत्र अवयवेष्वपि मध्ये एकत्र एकस्मिन्नवयवे युञ्जे । तत् कुत्र, बदनसरसिजे । मन्दहास इति चदनसरसिज विशेषणम् | मन्दः हासो यस्मिन् तत्र श्रीमुखे आलीन