पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/३४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशकम् – ९५ भक्तया विशुद्धचित्तस्यैव अनित्याश्च | त्वं तु श्रेयसां मध्ये भक्तिम् एकां केवलाम् अव्यभिचरिणी वा महिततमाम् अतिशयेन पूजनीयां सख्ये उद्धवाय आचख्याथ आख्यातवान् । विषयजुषाम् इन्द्रियाणि प्रीणयतां त्वद्भक्त्या य आनन्दस्तत्तुल्यः सम्मदः सुखं केन वा स्याद्, न केनापीत्यर्थः ॥ ३ ॥ तदेवाह- M-AAAAPAN भगवत्स्वरूपध्यानयोग्यतावर्णनम् । ३४३ " त्वद्भक्त्या तुष्टबुद्धेः सुखमिह चरतो विच्युताशस्य चाशा: सर्वाः स्युः सौख्यमय्यः सलिलकुहरगस्येव तोयैकमय्यः । सोऽयं खबिन्द्रलोकं कमलजभवनं योगसिद्धीय हुचा नाकाङ्क्षत्येतदास्तां स्वयमानुपतिते मोक्षसौख्येऽप्यनीहः ॥ ४ ॥ त्वद्भक्त्येति । त्वद्भक्त्या प्रेमलक्षणया तुष्टबुद्धेः भक्त्यैवालं किमन्यैरिति जातालंबुद्धे अत एव विच्युताशस्य विषयतृष्णारहितस्य अत एव इह सर्वत्र सुखं चरतः आशा: दिशः सर्वाः सौख्यमय्यः स्युः । अनुभूयमानं सर्वे सुखात्मकमेवेति भावः । यथा सलिलकुहरं महाह्रदः, तद्स्य मत्स्यादेः सर्वा दिशस्तोयैकमय्यो भवन्ति, एवं त्वद्भक्त्यानन्दनिममस्य भक्तस्यापि सर्वा दिशः सौख्यमस्य एवेत्यर्थः । फिञ्च, सोऽयं भक्तः खल्लु इन्द्रादिलोकं हृद्य मनोहराः योगसिद्धी: उपासनैफलंभूताः परकायप्रवेशाष्टैश्वर्यदूरश्रवणदर्शनाद्याः नाकाङ्क्षती- त्येतदास्ताम्, असौ मोक्षसौख्येऽप्यनीहो निराग्रहः । किं तर्हि दुष्करतादृष्टेः, न । स्वयमनुपतिते भक्तिमहिना स्वयमेव प्रादुर्भूते ॥ ४ ॥ आस्तान्तावदुत्तमभक्तकथा यतः प्राकृता अपि भक्ताः कृतार्था इत्याह- त्वद्भक्तो बाध्यमानोऽपि च विषयरसैरिन्द्रियाशान्तिहेतो भक्त्यैवाक्रम्यमाणैः पुनरपि खलु तैर्दुर्बलैर्नाभिजय्यः । सप्ताचिदपितार्दिहति किल यथा भूरिदाप्रपञ्च arerita तथैव प्रदहति दुरितं दुर्मदः केन्द्रियाणाम् ॥ ५ ॥ त्वद्भक्त इति । इन्द्रियाशान्तेः अवशीकृतेन्द्रियत्वाद्धेतोः विषयरसैर्वाध्यमानः आक्कष्यमाणोऽपि तैर्नाभिजय्यः न वशीकर्तुं शक्यः । अत्र हेतुः-दुर्बलैरिति ।