पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/३४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशकम् - ९९] भक्तथा विशुद्धचित्तस्यैव भगवत्स्वरूपध्यानयोग्यतावर्णनम् । ३४१ ननु भक्त्या जीवेश्वरैक्ये सति संसारनिवृत्तिरित्युक्तम् । तदनुपपन्नं, तथोर्भि- नत्वे सत्यैक्यायोगाद्, अभिन्नत्वे तयाजींवस्य संसारानुपपत्तेरित्याशङ्कय ईश्वरस्यैव मायामयशरीरसम्बन्धात् संसारित्वं तदपाये स्वस्वरूपेणावस्थानं च भवतीति परिहरति आदी हैरण्यगर्थी तनुमविकलजीवात्मिकामास्थितस्त्वं जीवत्वं प्राध्य मायागुणगणखचितो वर्तसे विश्वयोने! । तत्रोद्धेन सत्त्वेन तु गुणयुगलं भक्तिभावं गतेन- च्छित्वा सत्त्वं च हित्वा पुनरनुपहितो वर्तिताहे त्वमेव ॥ १ ॥ आदाविति । आदौ ब्रह्ममलयावसाने तब सिसृक्षायां सत्यां त्वं हिरण्य- गर्भस्येयं हैरण्यगर्भी, तां तनुमास्थितः तदभिमान्यभूः | कीदृशीम, अविकल- जीवात्मिकां । अत्र जीवशब्देन सूक्ष्मशरीरमुच्यते। सूक्ष्मशरीरसमष्टिरूपा- मित्यर्थः । किमर्थमित्यपेक्षायां तद्धेतुत्वेन सम्बोधयति – विश्वयोने! इति । वि- श्वस्य विराट्च्छरीरस्य प्रपञ्चस्व योनिः कारणम् | सूक्ष्मशरीराद्धि स्थूलशरीरो- त्पत्तिः । एवञ्च जगत्सृष्ट्यर्थं हिरण्यगर्भो ब्रह्माभूरिति भावः । एवम्भूतस्त्वमेव तथ्यष्टि- रूपं जीवत्वं प्राप्य मायागुणानां मायाकार्याणां महदहङ्कारभूतेन्द्रियप्राणपञ्चक- रूपाणां तत्त्वानां गणेन, तत्सङ्घातात्मकेन शरीरेणेत्यर्थः खचितः सम्बद्धो वर्तसे त्वमेव शरीराभिमानितया संसारी भवसि । अतो मम त्वद्रूपत्वात् दै. क्यम् युज्यत इति भावः । एवं संसारिणो जीवस्य रजस्तमोवृद्धौ संसारानिवृत्तैिः । सत्त्ववृद्धौ विशेषमाह—-तत्र विति । तत्र मायागुणेषु तु सत्त्ववृद्धौ विशेषोऽस्ती- ल्यर्थः । सात्विकपदार्थसेवया उद्वृद्धेन अत एव भक्तिभावं गतेन भक्तिरूपेण परिणतेनेत्यर्थः । गुणयुगलं रजस्तमश्च तत्कार्यभूतं शरीरादिकं च छित्वा माया- मयत्वेन ज्ञानमुत्पाद्यापाकृत्य कृतकार्यतया साघनरूपं सत्त्वं च हित्वा पुनः कार्य- कारणाव्यवधानाद् अनुपहितः परिपूर्णस्त्वमेवाहं वर्तिताहे त्वदेकीभावमनुभविता- स्मीति भावः ॥ १ ॥