पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/३४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नारायणीये [स्कन्धः - ११ विशेषणत्वात् पुँल्लिङ्गत्वम् । प्रकृष्टा समग्रोपचारयुक्ता पूजा प्रपूजा, नतिर्नमस्कारः, नुतिः स्तवनं, गुणैः सत्त्वादिभिः कृतानां सृष्ट्यादिकर्मणामनुकीर्तिः, आसु आदरोऽपि मे भूयात् ॥ ८॥ यद्यभ्येत तत्तत् तब समुपहृतं देव ! दासोऽस्मि तेर्ह त्वद्होन्मार्जनाद्यं भवतु मम मुहुः कर्म निर्मायमेव सूर्याग्निब्राह्मणात्मादिषु लसितचतुर्बाहुमाराधये त्वां त्वत्प्रेमाईत्वरूपो मम सततमभिष्यन्दतां भक्तियोगः ॥ ९ ॥ यद्यदिति । समुपहृतं समर्पितम् | त्वद्वेहेषु क्षेत्रादिषु उन्मार्जन रजसोऽपा- करणम् आद्यं यस्य सेचनपुष्पोपहारादेः निर्माय दाम्भिकतारहितं कर्म मम मुहुर्भवतु । पूजाधिष्ठानान्याह सूर्येति । आदिशब्देन गवादि गृह्यते । एम्बधिष्ठा- नेषु लसित चतुर्बाहुमाराधये सौरसूक्तहविरातिथ्यविषयभोगयवसादिभिः पूजयामि । त्वत्प्रेम्णा आर्द्रा द्रुतहृदयः तस्य भावस्तत्त्वं, तद्रूपो भक्तियोगो मम सततम- भिष्यन्दतां त्वद्विषये प्रवाहरूपेण प्रवर्ततामित्यर्थः ॥९॥ ऐक्यं ते दानहोमव्रतनियमतपस्साङ्ख्ययोगदुरापं त्वत्सङ्गेनैव गोप्यः किल सुकृतितमाः प्रापुरानन्दसान्द्रम् | भक्तेष्वन्येषु भूयस्स्वपि बहुमनुषे भक्तिमेव त्वमासां तन्मे त्वद्भक्तिमेव द्रढय हर गदान् कृष्ण! वातालयेश! ॥१०॥ ऐक्यमिति । दानादिभिर्योगिनामपि दुरापं ते तव ऐक्यं मोक्षं गोप्य - स्त्वत्सङ्गेनैव प्रापुः किल । अतस्ताः सुकृतितमाः । आनन्दसान्द्रम् आनन्दैक- रसम् । अन्येषु भूयस्सु बहुष्वपि भक्तेषु उद्धवादिषु सत्स्वपि त्वम् आसां गोपिकानां भक्तिमेव बहुमनुषे । तत् तस्माद् मे त्वयि प्रेमलक्षणां भक्तिमेव द्रढय अनपा- यिनीं कुरु ॥ १० ॥ इति तत्त्वज्ञानोत्पत्तिप्रकारवर्णनं, बन्धमोक्षस्वरूपवर्णनम्, अभक्तनिन्दापूर्वकं भक्ति प्रार्थनावर्णनं च चतुर्नवतितमं दशकम् । .१. 'ति। आत्मान्तर्यामी । आ' क. ग. पाठः,