पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/३४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अभक्तनिन्दापूर्वकं भक्तिप्रार्थना वर्णनम् । अभक्तानां शास्त्रश्रमोऽपि पाण्डित्यमात्रफल इत्याह --- दशकम् - ९४] शब्दब्रह्मण्यपीह प्रयतितमनसस्त्वां न जानन्ति केचित् कष्टं वन्ध्यश्रमास्ते चिरतरमिह गां बिभ्रते निष्प्रसूतिम् । यस्यां विश्वांभिरामाः सकलमलहरा दिव्यलीलावताराः सच्चित्सान्द्रं च रूपं तव न निगदितं तां न वाचं भ्रियासम् ॥ ७ ॥ शब्दब्रह्मणीति | मीमांसपोपबृंहिते साङ्गे वेदे प्रयतितमनसः कृत- श्रमा अपि इह केचित् तत्प्रधानप्रतिपाद्यं त्वां परं ब्रह्म न जानन्ति नोपासनादि कुर्बन्ति । कष्टम् | ते वन्ध्यश्रमाः व्यर्थपरिश्रमाः | ते चिरतरं दीर्घकालं निष्प्रसूर्ति भक्तिज्ञानफलोत्पादनरहितां गां वाचं जल्पवितण्डाख्यां बिते । अथवा प्रसवहीन - तया निर्दोहां ग़ां धेनुं बिभ्रते पुष्णन्ति । अहं तु यस्यां वाचि विश्वान् सर्वजनान् अभिरमयन्तीति बिश्वाभिरामाः सकलानां मलानां दुरितानां रागादीनां च निवर्तकाः दिव्याः शुद्धसत्त्वमयाः श्रीरामकृष्णाद्यवतारा न निगदिताः, सच्चित्सान्द्रं रूपं परं ब्रह्म न निगदितं न प्रतिपादितं, तां सगुणनिर्गुणेश्वरप्रतिपादनविधुरां वाचं न श्रियास न व्यवहरेयम् ॥ ७ ॥ अथ सत्सङ्गमद्वारा भक्ति प्रार्थयते त्रिभिः- यो यावान् यादृशो वा त्वमिति किमपि नैवावगच्छामि भूम- नेवश्चानन्यभावस्त्वदनुभजनमेवाद्रिये चैवैरिन् । । त्वल्लिङ्गानां त्वदङ्घ्रिप्रियजनसदसां दर्शनस्पर्शनादि- भूयान्मे त्वत्मपूजानतिनुतिमुणकर्मानुकीर्त्यादरोऽपि ॥८॥ य इति । यः यत्स्वरूप : यावान् यांमहिमा यादृशः यद्धर्मो वा त्वमिति किमपि नैवावगच्छामि । हे भूमन् ! ईश्वर ! एवञ्च सति अनन्यभावः स्वदेकचित्तः सन् त्वदनुभजनं त्वत्सेवामेवाद्रिये । कथमज्ञात्वा मद्भजनमित्यत आह-चैद्यवैरिनिति । शिशुपालवैरिन् ! गोपालबालकतया श्रुतत्वादेताबदव- गच्छामीति भावः । त्वलिङ्गानां त्वत्प्रतिमानां त्वदप्रिप्रिया भक्तजनाः, तेषां सदसां सभानाम् । दर्शनस्पर्शनादिरिति नमस्कारादि गृह्यते । यद्वा सत्सङ्ग-