पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/३४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नारायणीये [ स्कन्धः - १९ याथार्थ्यादिति । परमार्थतस्त्वन्मथस्यै ईश्वरादमिन्नस्यैव मम जीवस्य न वस्तुतो बन्धमोक्षौ, तथापि तव ईश्वरस्य माथाविद्यातनुभ्यां विद्या विद्यारूपशक्तिद्वयेन विचितौ तौ बमोक्ष । अविद्यया बन्धो विद्यया च मोक्ष इति भावः । तौ च स्वप्रबोधोपमौ यथा स्वमद्रष्टुः स्वमदृष्टेन देहेन बन्धः प्रबुध्य च तन्मोक्षः, तद्वद् अविदुषो देहबन्धः विदुषो मोक्षश्च । तथाच स्वप्नवन्मायामयत्वेऽपि बन्धस्य दुःखहेतुत्वाद् ज्ञानेन बन्धच्छेदः प्रार्थनीय इति भावः । तदेव बद्धमुक्तयोवलक्षण्य- माह-बद्ध इति । बद्धे संसारिणि जीवद्विमुक्ति गतवति जीवन्मुक्ते च तावत् तावती वक्ष्यमाणरूपा । एको बद्धः देह एव द्रुमः, द्रुमवदानित्यत्वादिधर्मत्वात्, तत्स्थ: तस्मादपृथग्भूतः सन् विषयरसफलं विषयानुभवरूपं कर्मफलं भुङ्गे । अपरः जीवन्मुक्तः न विषयरसफलं । तथापि ज्ञानशक्तया निर्व्यथात्मा पोडारहितः ॥५॥ ननु तर्हि जीवन्मुक्तत्वमेव प्रार्थ्यतामित्याशङ्कय तदनधिकारमाकलथ्य भक्ति प्रार्थयते ---- जीवन्मुक्तत्वमेवंविधमिति वचसा किं फलं दूरदूरे तन्नामाशुद्धबुद्धेर्न च लघु मनसः शोधनं भक्तितोऽन्यत् । तन्मे विष्णो ! कृषीष्ठास्त्वयि कृतसकलपार्पणं भक्तिभारं येन स्यां मञ्जु किञ्चिद्गुरुवचनमिलत्त्वत्प्रबोधस्त्वदात्मा ॥६॥ जीवन्मुक्तत्वमिति | वचसा किं फलं, न तत्प्राप्तिः स्यात् । अशुद्ध- बुद्धेः रागाविदुष्टान्तःकरणस्य तद् जीवन्मुक्तित्वं दूरे नाम | तर्हन्तःकरणशुद्ध- पाया अन्वेष्टव्या इत्याशङ्कच किमुपायान्तरेण भक्तिरेव लघुरुपाय इत्याह - न चेति । न च भक्तितोऽन्यद् मनसः शोधनं शुद्धयुपाय: तीर्थस्नानादि लघु अतिशीघ्रम् अप्रयत्नं च भवति । तत् तस्मात् त्वयि भक्तिभारम् अनपायिनी भक्ति कृर्षाष्ठाः । कृतम् अनुष्ठितं सकलानां शरीरतत्सम्बन्धिनां प्रार्पणं मन्त्रपुरस्सर समर्पण यस्मिन् भक्तिभारे | किञ्चिदुरुबचनेति भक्तौ सत्यां स्वयमेव ज्ञानोत्पत्तिरिति दर्शयति । मङ्क्षु शीघ्रं गुरुवचनमात्रनिमित्तेन मिलता सञ्जातेन त्वरप्रबोधेन ब्रह्मज्ञानेन त्वदात्मा मुक्तो भवामीत्यर्थः ॥ ६ ॥ १. 'स्येश्वरस्यै' क. ग. पाठः १. 'नत्व' व्याख्यासम्मतः पठिा,