पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/३४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशकम् - ९४] तत्त्वज्ञानोत्पत्तिप्रकारवर्णनम् | ३३७ स्वर्गादिफलानि प्राप्ताः मत्ताः विमाने स्त्रीभिः सह नन्दनादिषु क्रडिन्तः प्रमत्ताः कर्मक्षयेण पतने अध:पतने प्रसजति सति अनन्तान् विषादान् दुःखानि यान्ति ॥ ३ ॥ ननु वेदोक्तोपासनादिकर्मभिः सत्यलोकं प्राप्ताः केशरहिता ब्रह्मणा सह मोदन्त इत्याशङ्कायामाह- त्वल्लोकादन्यलोकः क नु भयरहितो यत् परार्धद्रयान्ते त्वगीतः सत्यलोकेऽपि न सुखवसतिः पद्मभू: पद्मनाभ ! | एवम्भावे त्वधर्मार्जितबहुतमसां का कथा नारकाणां तन्मे त्वं छिन्धि बन्धं वरद ! कृपणबन्धो ! कृपापूरसिन्धो ! ॥ ४ ॥ - त्वल्लोकादिति । वल्लोकाद् बैकुण्ठाद् अन्यलोकः सत्यलोकादिः भयरहितो विनाशभयरहितः क्व नु नास्तीत्यर्थः । अत्र हेतुः –परार्धद्वयम् अन्तोऽवधिर्यस्य स तथा ताहशे सत्यलोके स पद्मभूरपि त्वत् कालस्वरूपादीश्वरादू भीतः अतो न सुखवसतिः सुखरूपा विनाशभयरहिता वसतिर्वासो यस्य स तथा । पद्मभूरिति ब्रह्मण उत्पत्तिविनाशौ द्योतयति । एवम्भावे एवं सति विद्याकर्मभ्यां प्रतिश्वर्यस्य ब्रह्मणोऽपि दुःखात्यन्तिकनिवृत्त्यभावे सति अधर्मेराजितं बहुतमो दुरितं येषां तेषां नारकाणां नरकैपतितानां संसारिणां क्लेशहाने का कथा | तत् तस्माद् बन्धं शरीराद्यहम्ममाभिमानं छिन्धि, मोक्षं प्रयच्छेत्यर्थः ॥ ४ ॥ 1 ननु जीवो नाम नेश्वरादभ्यः । कुतस्तस्य बन्धमोक्षावित्याशकच परिहरति - याथार्थ्यात् त्वन्मयस्यैव हि ममन विभो ! वस्तुतो बन्धमोक्षौ मायाविद्यानुभ्यां तव तु विरचितौ स्वबोधोपमौ तौ । बद्धे जीवद्विमुक्तिं गतवति च भिदा तावती तावदेको भुके देहनुमस्थो विषयफॅलरसान् नापरी निर्व्यथात्मा ॥५॥