पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्रह्मज्ञानमुत्पाद्याज्ञानानेवृत्तिद्वारा मोक्षमणि ददातीति। किच, सद्यः अस्मिन् जन्म- न्येव सिद्धिं फलं करोति, न ज्ञानमार्ग इव कालान्तरे | अयि विभो ! वाताव्या- धीश्वर ! मे मम त्यदेकशरणस्य साकेशरम त्वत्पदप्रेमप्रौढिरसाईता तत्र पादाम्बुजयोः प्रेम्णः प्रौढिरतिशयोऽनपायिनी प्रीतिः स एव सः, आस्वाद- नीयत्वात् तेनार्द्रता विलीनहृदयता तादृशी भक्तिरेव द्रुततरमेवास्तु, मम सेवामा- न्येऽपि मदेकशरणोऽयमिति घिया मह्यं तादृशी भक्तिमेवानुगृहाणेत्यर्थः ॥ १० ॥ } इति भगवद्रूपवर्णनं भगवद्भक्त्युत्पत्त्यादिवर्णनं च द्वितीयं दचकम् | अथ भक्तानां स्वरूपं वर्णयति पठन्तो नामानि ममदभरसिन्धौ निपतिताः स्मरन्तो रूपं ते वरद ! कथयन्तो गुणकथाः । .. चरन्तो ये भक्तास्त्वयि खलु रमन्ते परमभू- नई धन्यान् मन्ये समधिगतसर्वाभिलषितान् ॥ १ ॥ पठन्त इति । ये भक्ताः त्वाय खल्लु त्वयीश्वर एव रमन्ते, नान्तरान्तरा विष- येष्वपि, तानमून परं केवलम् अहं धन्यान् भाग्यवतो मन्ये । रमणप्रकारमाह- पठन्त इति । ते नामानि पठन्तः उच्चैः कीर्तयन्तः, हे वरद ! भक्ताभीष्टमंद| कीर्त- नद्वारा हृदि प्रविष्टं तय रूपं स्मरन्तः, अत एव प्रमदभरसिन्धौ आनन्दातिशयरूपे समुद्रे निपतिताः तादृशानन्दानुभाबैर्हर्षाथुरोमाञ्चादिभिश्चोपलक्षितः, गुणकश्नाः भक्तवात्सल्यादीन् गुणान् अत्यद्भुतानि चरितानि चान्योन्यं कथयन्तः, गृहाद्यनपे- क्षैया चरन्तः । एवम्भूतानां मनः पुनस्त्वत्पादारविन्दाच्चालयितुं पारमेष्ठ्यादिपद- मध्यकिञ्चित्करमित्याह – समधिगतेति । समधिगतानि सम्प्राप्तानि सर्वाण्यभिलषि- तान्यमष्टानि येषां ते तथा । खत्पादारविन्दस्य सकलपुरुषार्थरूपतया तत् प्राप्ताः पुनरपरं न काङ्क्षन्तीत्यर्थः ॥ १ ॥ ४ --- १. 'ति । स क. पाठः २. 'फलद' क. पाठ:. ३. 'ताः। किच, ते गु' क. पाठः ४. 'दिगु' कं. पाठ: ५. 'क्षतया' ख. पाठः.