पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

F दशकम् - २] भगवद्भक्त्युत्पत्यादिवर्णनम् । निर्यन्मला निर्यन्ति निर्गच्छन्ति रागद्वेषमोहमदमात्सर्यरूपाणि मनोमलानि येषां त, तथा, तादृशाः केचिद् बोधे ज्ञानमार्गे भक्तिमार्गे वाप्युचिततामयान्ति अधिकार प्राप्नुवन्ति । यदि सभ्यविरक्तास्तहि ज्ञानयोगेऽधिकारिणः, यदि वेषद्विरक्तास्तहिं भक्तिमार्गेऽधिकारिणो भवन्ति । तदुक्तं ' न निर्विष्णो नातिसक्तो भक्तियोगोऽस्य सिद्धिद ' इति । तावता तावन्मात्रोपयोगिता कर्मणा भक्तिमार्गप्रस्थितानामस्माकं किं प्रयोजनं, न किमपीत्यर्थः । अन्ये पुनश्चित्तीद्त्वं रागादिराहित्यम् ऋते विना विरक्तम्मन्याः केचित् तर्कपथे वेदान्तशास्त्रे पर ट्विा क्लेशकभाजनानि भूत्वा हे विभो ! तब ब्रह्माख्यं वपुः स्वरूपं विचिन्त्य वेदान्तार्थविचारोपायभूतैर्विविधैर्यायै- विचार्य बहुभिरुपासनाविधिभिश्योपास्स बहुभिर्जन्मान्तरैः सिध्यन्ति फलं साघ यन्ति ॥ ९ ॥ " तर्हि भक्तियोगेऽपि किमुक्तदोषाः सन्ति, नेत्याह- त्वद्भक्तिस्तुकारामझरीनिर्मजनेन स्वयं सिध्दी सद्यः सिद्धिकरी जयत्याय विभो ! सैवास्तु मे त्वत्पद- मदिरसाता दुतरालपाधीश्वर ! ॥ १० ॥ - त्वदिति । त्वद्भक्तिस्तु तथा न भवतीत्यर्थः । किन्तु जयति कर्मज्ञानमयाद् योगद्वयादुत्कृष्टा भवति । उत्कर्ष मेवाह - कथारसेति । स्वस्थायां यः शृङ्गारा- दिरूपो रसः, अथवा कथा श्रद्धा, स एवामृतझरी मधुद्रवः तस्मिन् नितरां मज्ज- नेन स्वयं सिध्यन्तीति । अयमर्थः - त्वत्कथाः शृण्वतां पुनःपुनः शुश्रूषा जायते । ततध्ध विविधविषयतृष्णापैति । ततचित्तशुद्धिद्वारा भक्तिः स्वयमेवोत्पद्यत इति । ननूत्पन्नापि भक्तिरज्ञानक्कृतं बन्धं न निवर्तयति, ज्ञानस्यैवाज्ञाननाशकत्वादित्याश- ट्र्याह - विमलेति । अलेशतः केशं विनैव विगतं नष्टं मलं शरीराद्यहंममाभिमा- नरूपमज्ञानं यस्मात् प्रबोधात् स विमलप्रबोधो ब्रह्मज्ञानं, स एव पदवी मार्ग उपायो ब्रह्मप्राप्तेः, तां तन्वती कुर्वतीति । अयमाशयः - भक्तर्हि बन्धमोक्षारूय- फलजनने त्वत्स्वरूपब्रह्मज्ञानभवान्तरव्यापारमात्रमिति सा भक्तिरेव भगवत्यक्लेशेनैव Pe १. 'तस्याद्र' ख. पाठ:. २. 'सेवाय' क. पाठः ३. 'कल्पितं' क. पाठः,