पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नारायणीये Over Chapte - योगीश्वरै- ट्र्याद् भृशम् अतिशयेन उत्तमतरः अत्युत्कृष्टः । क्षेत्र प्रमाणमाह रिति, व्यासनलदादिभिः पुराणेषु गीयते वर्ण्यते इत्यर्थः । किञ्च, हे रमावल्लभ ! त्वयि प्रेम्णो यः प्रकर्षोऽतिशयः, तदात्मिका तत्स्वरूपा भक्तिः निःश्रमम् अनायासं यथा भवति तथा विश्वपुरुषः सकलजनैः लभ्या खलु, नात्र सन्देह इत्यर्थः । तत्र हेतु- माह – सौन्दर्यैकरसात्मक इति । सौन्दर्यमेकमेव रस आत्मा स्वरूपं यस्य स तथा, तस्मिन्नित्यर्थः ॥ ७ ॥ निष्कामं नियतस्वधर्मचरणं यत् कर्मयोगाभिवं तद् दूरेत्यफलंयौनोपलभ्यं पुनः । तत् त्वव्यक्ततया सुदुर्गमतरं चित्तस्य तस्माद् विभो ! त्वत्प्रेमात्मकभक्तिरेव सततं स्वादीयसी श्रेयसी ॥ ८ ॥ निष्काममिति । कर्मयोग इत्यभिधौ नाम यस्य, तत् कर्मयोगाभिघम् । निर्गतः कामः फलाभिसन्धिर्यत्मात् तन्निष्कामं, तादृशम् । नियतस्य नित्यनैमित्ति- कादेः स्वधर्मस्यै विहितस्य चरणम् अनुष्टानं यत्, तद् दूरेत्यफलं दूरेत्यं दूरभवं फलं यस्य, कालान्तरे फलप्रदम् । औपनिषदम् उपनिषत्प्रतिपाद्यं ब्रह्म, तस्य ज्ञानेनो- पलभ्यं मोक्षाख्यं फलं यत् तत् पुनरव्यक्ततया करणागोचरतया चित्तस्य सुदु- र्गमतरं कथञ्चनापि प्राप्तुमशक्यं निरस्तसमस्तैषणानां संन्यस्त समस्तकर्मणामेव तत्राधिकारात् । हे विभो । कर्मज्ञानभक्तिमार्गनिष्ठा नामप्यभीष्टफलप्रदान समर्थ ! तस्मात् त्वाय प्रेमात्मिका भक्तिरेव सततम् उत्पत्ती उत्पन्नायां फलप्राप्तौ च स्वादीयसी अतिशयेनास्वादनीया श्रेयसी ब्रह्मादिभिरपि प्रशस्यतरा चेत्यर्थः ॥ ८॥ , अत्यावासकराणि कर्णपटलान्याचर्य निर्यन्मला बोधे भक्तिपथेऽथवाध्युचिततागायान्ति किं तावता | क्रिष्टा तर्कपथे परं तब वपुर्वद्यालयमन्ये पुन- विचाईत्वमृते विचिन्त्य बहुभिः सिध्यन्ति जन्मान्तरैः ॥ ९ ॥ अतीति । अत्यायासकराणि बहुसावनपरिश्रमपूर्वकमनुष्ठेयानि कर्मणां पट- लानि नित्यनैमित्तिकप्रायश्चित्तोपासनारूप बहुविध कर्मसम्हान् आचर्य अनुष्ठाय ४. 'तनि- १. 'त' स्त्र. पाठः यम्यनि' ख. पाठ:. .२. 'ते। कि' ख, पाठः ५. 'स्य चर' ख. पाठ: ३. 'धानं संज्ञा य' क. पाठः. ६. 'लंका' ख. पाठः,