पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/३३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- भवेयम् । अनेन च प्रारब्धकर्मफलस्यावश्यभोग्यत्वात् सुखदुःखप्राप्तिपरिहारार्थः प्रयासोडापे वृथाकालक्षेपैकफल इत्यापे दर्शितम् । अगाधो गम्भीर एवम्भूत इति परिकलयितुमशक्यः । रूपविलासमोहितो नश्यतीति शलभाच्छिक्षणीय- मित्याह मा पतमिति | योषिति प्रमदायां हावभावादिभिः, आविशब्दात कटककटिसूत्रहारदुलादावतिमनोहरे वस्तुनि परमार्थतो दुःखहेतावुपभोग्यधिया मा पतं यथासौ तद्वर्णलोगितः पतङ्गः पतति तद्वत् । किञ्च, यथा भृङ्गः पुष्पेषु सारभूतं मधु भजति एवं सर्वशास्त्रेषु सारं श्रीनारायणस्मरणरूपमर्थमेव भजेयम् । शिक्षणीयान्तरमाह—– किन्विति | किन्तु विशेषोऽस्ति । तद्वद् भृङ्गवत् | यथा भृङ्गो विशिष्टगन्धलोभेनैकस्मिन्नेव पद्मे वसन्नस्तमये मुकुलिते तस्मिन् बध्यते, तद्वदह- मप्यर्थार्जनाद्याभनिवेशेनैकत्र सक्तो न नाशं गच्छेयमित्यर्थः ॥ ५ ॥ मा बध्यास तरुण्या गज इव वशया नार्जयेयं धनौघं हर्तान्यस्तं हि माध्वीहर इव मृगवन्मा मुहं ग्राम्यगीतैः । नात्यासज्जेय भोज्ये शप इव बडिशे पिङ्गलावन्निराशः सुप्यां भर्तव्ययोगात कुरर इव विभो! सामिषोऽन्यैर्न हन्यै ॥ ६ ॥ - मेति । स्त्रीणामङ्गसङ्गो बन्धहेतुरिति गजच्छिक्षणीयमित्याह -- मा बध्यास- मिति। वशया करिण्या। गजो हि करिणीं प्रदर्श्य निखातपिहितगर्ते निपात्य बध्यते । करिणीजठरे बद्धचर्मान्तर्भूतपुरुषेणेति वा । त्यागभोगहीनं धनं न सञ्चिनुयादिति माध्वीहराच्छिक्षणीयमित्याह - नार्जयेयमिति । तं धनौघम् अन्यश्चोरादिः हर्ता हरिं ष्यति । माध्वीहरो हि तरुकोटरादिषु मक्षिकाभिः सञ्चितं मंधु हरति, तद्वत् । गीतादिशब्दसक्तिर्नाश हेतुरिति मृगाच्छिक्षणीयमित्याह --मृगवदिति । नृगो हि मृगयोगतेन मोहितस्तेन निगृह्यते, तद्वत् | ग्राम्यगीतैरिति । भगवद्गीतेष्वेवासक्तिर्म- वेदिति भावः । रसासक्तिर्नाशहेतुरिति मीनाच्छिक्षणीयमित्याह –नातीति । झषो मत्स्यः बडिशे आमिषावृतलोहकण्टके | आशा दुःखहेतुः नैराश्यं सुखहेतुरिति पिङ्गलायाः शिक्षणीयमित्याह – पिङ्गलावदिति | पिङ्गला नाम स्वैरिणी अर्थाशया