पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/३३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नारायणीये [स्कन्धः - ११ पुष्टिरिति । पूर्वपक्षप्रतिपदमारभ्य क्रमाद् दूरस्थितस्यादित्यमण्डलस्य पञ्चदशः पञ्चदशो भागो जलमये चन्द्रमण्डले प्रतिबिम्बितो दृश्यते । ते प्रतिबिम्बाश्चन्द्रस्य कला इत्युच्यन्ते । यथा तासामेव पुष्टिं नष्टिं च विद्यां, न शशिनः, तद्वत् तनोरेव जन्मास्तित्वविपरिणामविवृद्ध्यपक्षयविनाशरूपाः षडू भावविकाराः, न त्वात्मन इति विद्यामित्यर्थः । आदित्यदृष्टान्तेनावगन्तव्यमाह-तोयादीति । यथैको मार्तण्डो- ऽनेकेषु घटोदकादिषु व्यस्तोऽनेको दृश्यते, तद्वत् तनुषु सर्वशरीरेषु आत्मन उपा- धिभेदेन भेदप्रतीताबप्येकतामपि च विद्याम् | त्वत्प्रसादादिति सर्वत्र योज्यम् || 3 स्नेहाद् व्याधास्तपुत्रमणयमृतकपोतायितो मा स्म भूवं प्राप्तं प्राश्नन् सहेयँ क्षुधमपि शयुक्त् सिन्धुवत् स्यामंगाधः । मा पतं योषिदादौ शिखिनि शलभवद् भृङ्गवत् सारभागी भूयासं किन्तु तद्वद् धनचयनवशान्माइमीश! प्रणेशम् ।। ५ ।। स्नेहादिति | नेहः सन्तापहेतुरिति कपोताद् ग्राह्यमित्याह –नेहादिति | व्याधेन लुब्धकेन अस्तेषु निगृहीतेषु पुत्रेषु प्रणयेन मृतो यः कपोतः स इवाचरतीति तथा । कश्चिद् बनेचरो नीडान्तिके सञ्चरतः पक्षिणो जालमातत्य प्रतिपालयामास । तत्र प्रथममजानन्तः कपोतशिशवो जालेना- वृताः । तान् दृष्ट्वा कपोती च दुःखेनापतत् । कपोतब्ध पुत्रभार्याविलपनविचे- नादिदर्श नजनितदुःखप्रणयकरुणान्धवीः स्वयमपि विलपनपायमगमत् । एवं मा भूवमिति भावः । अजगरादुपदेष्टव्यमाह प्राप्तमिति । शयुः अजंगरः तद्वत् प्राप्तं प्राश्नन् यथालब्धेन शरीरनिर्वाहमात्रं कुर्वन् क्षुधं सहेय सोढुं शक्तो १. 'रदेशस्थि' क. ग. पाठः २. कोऽपि मा ग, पाठः, ३. 'पिवि' क. ग. पाठः. ४. 'datक्यशेष:' क. ग. पाठः, ५. 'थं' क. पाठः,

  • नशेडि पुषादित्वादङ् । 'मशिमन्योरलिये त्वामेति भाध्यवार्तिकादत एत्वम् ।

छन्दोग्रहणं तु वाक्यमेदेनामिपचोरेव सम्बध्यते, 'अनेशद् मेनकाम्' इत्यादिलक्ष्यानुरोधादिति वृत्त्यनुसारेणेदम् !