पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/३३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशकम् – ९३] पञ्चविंशतेगुरुभ्यः शिक्षणीयस्य वर्णनम् । ३२९ त्वत्कारुण्य इति । क इव नहि गुरुः, न केवलमात्मैव, पृथिव्यादिप- दार्था अपि गुरव एवेति भावः । किमेभ्यः शिक्षणीयं, तदाह लोकवृत्त इति । लोकाः स्थिरचरादयः तेषां वृत्तं क्षमानिस्सङ्गत्वालेपकत्वादिस्वभावः । तत्रैते गुरव इत्यर्थः । हे विभूमन् ! विष्णो ! भूमिः सर्वैः खलैराक्रान्तापि न चलति हि । ततः भूमेः सत्क्षमा स्वमार्गादचलनरूपां शिक्षयेयं कर्तव्यतयावगच्छेयम् । तत्तद्विष यैर्गुणवद्भिर्दोषवद्भिश्च परिचये सम्पर्के सत्यप्यप्रसक्तिम् असङ्गत्वं समीराद् गृह्णी - यां शिक्षयेयम् । आत्मनः शरीरपरिच्छिन्नतया प्रतीयमानस्य व्याप्तत्वं सर्वशरी- रेष्वन्तर्बहिश्च व्याप्तत्वम् । मे गगनगुरुवशादिति । गगनं हि घटादिपरिच्छिन्नतया प्रतीयमानमपि बाहेरन्तश्च व्यासम् । किञ्च, निर्लेपता शरीरस्थत्वेऽपि तत्स्पर्शर- हितो निर्लेपः, तस्य भावो निर्लेपता | सा च गंगनगुरुवशादेव मे भातु । यथा गगनं मेधादिभिर्न स्पृश्यते तथेति ॥ ३ ॥ जलानलशशिर विभ्यः शिक्षणीयमाह - स्वच्छः स्यां पावनोऽहं मधुर उदकवद् वहिवन्मा स्म गृह्णां सर्वानीनोऽपि दोषं तरुषु तमित्र मां सर्वभूतेष्ववेयाम् । पुष्टिर्नष्टि: कलानां शशिन इव तनोर्नात्मनोऽस्तीति विद्यां तोयादिव्यस्तमार्तण्डवदपि च तनुष्वेकतां त्वत्प्रसादात् ।। ४ ।। स्वच्छ इति । अहमुदकवत् स्वच्छो निर्मल: पावनः दर्शनमात्रेण पापशोधकः मधुरो मधुरालापी च स्याम् । सर्वानीनः सर्वभक्षोऽपि वहिवद् दोषं’ मा स्म गृह्वां पापं नाढ्द्याम् । अग्नेर्यायान्तरमाह -तरुष्विति । तरुषु काष्ठेषु तमन्निमिव यथा काष्ठेषु प्रविष्टोऽग्निः काष्ठसमानरूपो ह्रस्वदीर्घस्थूलसूक्ष्मादिरूपोऽव- गम्यते, तथा माम् आत्मानमपि सर्वभूतेषु सुरनरतिर्यगादिशरीरेषु तदुपाधिवशात् तत्तत्समानरूपोऽवगम्यत इति अवेयाम् अवगच्छेयम् । शशिनः शिक्षणीयमाह - १. 'षं पा' ख. पाठः २. 'ममात्मापि स' क. पाठः, 8. आदयामित्यस्य स्थाने 'आददीय' इति साधु |