पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/३३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२६ नारायणीये [स्कन्धः - ११ H ननु त्रिभिः ऋणैर्जातस्य तदनपाकरणे कथं मुक्तिः स्यादित्यत आह - देवर्षीणां पितृणामपि न पुनर्ऋणी किङ्करो वा स भूमन् ! योऽसौ सर्वात्मना त्वां शरणमुपगतः सर्वकृत्यानि हित्वा तस्योत्पर्ण विकर्माप्यखिलमपनुदस्वेव चित्तस्थितस्त्वं तन्मेष पवनपुरपते ! रुन्धि भक्ति मणीयाः ॥१०॥ 66 -- देवर्षीणामिति । देवानाम् ऋषीणां पितृणामपि, यथा अभक्त ऋणी अध- मर्णो भवति । अत एव तदपाकरणाय यज्ञाध्ययनपुत्रोत्पादनादि तेन कर्तव्यमिति तेषां किङ्करश्च भवति । तथाच स्मृति: "हीनजाति परिक्षीणमृणार्थ कर्म कास्येत् ”(याज्ञ. अ. २. श्लो.४३) इति । स भक्तः पुनर्ऋणी किङ्करो वा न भवति । तत्र हेतुमाह -- योऽसाविति । यः पुरुषः सर्वात्मना सर्वभावेन त्वां शरणमुप- गतः सर्वकृत्यानि विहितसकलकर्माणि हित्वा । ननु तर्हि सर्वात्मना निषिद्ध - कर्मणोऽपरिहार्यत्वात् प्रायश्चित्तादिकर्म कर्तव्यं, नेत्साह – तस्येति । विकर्म निषिद्धकर्मणः फलं तस्य त्वां शरणं गतस्य तावन्न संभवति । यदि प्रमादा- दिना भवेत्, तर्हि तद्पीत्यपिशब्दार्थः । अखिलं निरवशेषम् अपनुदसि नाशयसि । ननु नास्य पापक्षयार्थी भगवदुपासनम्, अत आह - चित्तस्थितस्त्वमिति | न हि वस्तुशक्तिरर्थितामपेक्षते कार्योत्पादनाय, यथा ह्यौषधं फलार्थिनामफलार्थिना- मध्यविशेषेणारोग्यादि जनयति तथेति भावः । तत् तस्माद् यस्माञ्चित्तस्थः पापम- पनुदसि पापोत्थान् पापकर्मजनितान् तापान् दुरितानि रुन्धि वारय । भक्ति प्रणीया: अनायिनी कृषीठाः ॥१०॥ , इति कर्मभित्रभक्तिस्वरूपवर्णनं द्विनवतितमं दशकम् । १.. 'वातोत्थ' घ. पाठः २. 'नुस' ख. पाळ. ३. 'सि | ना' गः पाठः,