पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/३२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२०. नारायणी स्किन्धः -- ११ मानत्वाद् | तरित्वा अतिक्रम्य परमसुखमये निरतिशयानन्दस्वरूपे त्वत्पदे पद्यत इति पदं ब्रह्म त्वत्स्वरूपे ब्रह्मणीत्यर्थः । अथवा परमसुखमये निरतिशयानन्दज- नके त्वत्पदाब्जे मोदिताहे प्रसन्नो भवितास्मि भक्तजनैः सह भागवतधर्माभ्यासेन सेविष्य इति भावः । तस्य मोदस्य अयं मायाजयः पूर्वरङ्गः कारणत्वेन्द्र प्रथमम नुष्ठेयः | यदाह बोप्पदेव:- 'मायाजयोऽवरा भक्तिर्ज्ञानकर्मसमुच्चयाद्' इति । यद्वा तस्य मायातरणादेर्मदनुष्ठेयस्यार्थस्य अयं मयासकृत् प्रार्थ्यमानो मद्रोगनाशः पूर्वरङ्गः नाटकप्रयोगे नान्यादिवत् प्रथममवश्य निर्वर्त्यः । स च त्वत्करुणैका- यत्त इति त्वामेव प्रार्थयामीत्याशयेन प्रार्थयते --- पवनपुरपते | इति ॥ १० ॥ इति भक्तेरेव निःश्रेयसाबाप्तिहेतुत्ववर्णनं, भक्तिस्वरूपतत्कायवर्णनं च एकनवतितमं दशकम् । ननु सर्वकर्मणां भगवद्धर्मत्वापादनाय विना फलानुसन्धानमीश्वरसमर्पणेना- नुष्ठानमुक्तम् | तदनुपपन्नं, स्वर्गद्यर्थमेव ज्योतिष्टोमादीनां विहितत्वात् फलकामस्यै- व च तत्राधिकारादित्याशङ्कय वेदस्य परोक्षवादत्वात् तात्पर्य दुर्जेयमित्यभिप्रायेण परिहरति - वेद: सर्वाणि कर्माण्यफलपरतया वर्णितानीति बुद्ध्वा तानि त्वय्यर्पितान्येव हि समनुचरन् यानि नैष्कर्म्यमीश ! | मा भूद् वेदैनिषिद्धे कुहचिदपि मनःकर्मवाचां प्रवृत्ति- दुर्वर्ज चेदवाप्तं तदपि खलु भवत्यर्पये चित्प्रकाशे ॥ १ ॥ वेदैरिति । वेदैः विधिवाक्यैः सर्वाणि ज्योतिष्टोमादीनि कर्माणि अफलप - रतया वर्णितानि न फलसाधनत्वेन विहितानि, किन्तु नैष्कर्म्यार्थ विहितानि । फलश्रुतिस्तु रोचनार्था | यथा माता बालमौषधं पाययन्ती गुडशर्करादिभिः प्रलोभ- यन्ती पाययति, ददात्ति च गुडशर्करादि । नैतावतौषधपानस्य तल्लाभः प्रयोजनम्, अपि तु रोगनिवृत्तिः, तथा वेदोऽप्यवान्तरफलैः प्रलोभयन् कर्ममोक्षायैव कर्म विदुषातीति बुद्ध्वा तानि फलपरत्वेन श्रुतान्यपि । एवकारेण फलाभिसन्विर्ज्या- बर्त्यते । ननु यदि नैष्कर्म्यं कर्मणां फलं, तर्हि प्रथममेव कर्म त्यज्यतामित्याश- ●