पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/३२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशकम् - ९१] भक्तिस्वरूपतत्कार्यवर्णनम् । भ्यामिति भावः । विवशा अस्वतन्त्रा गतिः उच्चावचशरीरप्राप्तिर्येषां ते तथा । दुःखजाले संसारार्णवे क्षिपन्ती पातयन्ती त्वन्माया त्वदर्भाना माया मां त्वत्सेवक- मपि मामिद् महद्धिमाकम्य त्वत्स्मृर्ति मापनैषीत् । अयि भुवनपते! श्रीकृष्ण ! तां वारयेति भावः । त्वत्पादे भक्तिरेव तत्प्रशान्त्यै तस्या मायायाः प्रहाणाय कल्प- ते उपायो भवति, नाभ्योऽस्त्युपाय इत्यवदत् । सिद्धयोगी सिद्धो जीवन्मुक्त: योगी चेति सिद्धयोगी नवयोगिष्वन्यतमः | योगिषु मध्ये ज्ञातृज्ञेयज्ञानरहितत्वात् प्र- बुद्ध इति संज्ञा । स हि विदेहाय राज्ञे “तँन्माययातो बुध आभजेत् तं भक्त्यैकये- शम्” (श्री. भा. स्क. ११. अ. २. श्लो. ३७) इति मायातारकत्वेन भक्तिमेवावो- चत् ॥ ९ ॥ रमाह अथ वैराग्यविवेकद्वारा गुरूपसतिलब्धभक्तिज्ञानसमुचयेन मायाजयप्रका- -- दुःखान्यालोक्य जन्तुष्वलमुदितविवेकोऽहमाचार्यवर्या- लब्ध्वा त्वद्रूपतत्त्वं गुणचरितकथायुद्भवद्भक्तिभूमा । यायामेनां तरित्वा परमसुखमये त्वत्पदे मोदिताहे तस्यायं पूर्वरङ्गः पवनपुरपते! नाशयाशेषरोगान् ॥ १० ॥ , दुःखानीति | जन्तुषु सदैव दुःखपरिहाराय सुखप्राप्तये च प्रयतमानेषु शरीरिषु तत एव जातानि दुःखान्यालोक्य अलम् अतिशयेन उदितविवेकः यथे- ह पुत्रमित्रंधनादयः सुखसाधनत्वेनाभिमन्यमानाः दुःखमेव जनयन्ति कर्मनिर्मित- त्वाद् एवं स्वर्गेऽपीत्युत्पन्नविविक्तज्ञानः सन् अहमाचार्येषु ज्ञानविज्ञानसम्पन्नेषु घर्यः परोपदेशकुशलः तस्मात् त्वद्रूपस्य ईश्वरस्वरूपस्य तत्त्वं सम्यग्ज्ञानं लब्ध्वा अवाप्य गुणचरितानां गुणानां भक्तवात्सल्यादिभगवद्गुणानां तच्चरितानां च कथा कथनम् । आदिशब्देन कीर्तनादि गुणते । गुणचरितकथादिभिः उद्भवन् भक्तेर्भूमा बाहुल्यम् अनपायित्वं यस्य स तथा । एनामित्युक्तिर्मायाकार्यस्य रागादेरनुभूय-