पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/३२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशकम् - ९९] भक्तिस्वरूपतत्कार्यवर्णनम् । जन्मकर्मणां नाम्नां च कीर्तनं, सर्वत्रेश्वरदृष्टया प्रणामधेह त्वत्सेवोच्यते । तस्यां सत्यां तव कृपावश्यंभाविनी । तया मम भक्तेरीश्वरप्रेम्णो दाढ्य स्थैर्य, ततो विरागो विषयविरक्तिः, ततस्त्वत्तत्त्वस्येश्वर याथातथ्यस्यावबोधः सम्यं- गनुभव:, एतत् त्रितयमपि च सिध्येत् । यत्रभेदं विनैवेति । त्वत्कृपायामेव मया यत्नः कार्यः । तस्यां आतायाम् एतत् त्रयं युगपदेव सिध्येदित्यर्थः ॥ ६॥ किञ्चैवमीश्वरकुपया भक्तिविरक्तिज्ञानेषु जातेषु भक्तकुलोत्तंसतां प्राप्नुया- मित्याह -- नो मुझन् तृडायैर्भवसरणिभवैस्त्वन्निलीनाशयत्वा- चिन्तासातत्यशाली निमिषलवमपि त्वत्पदादमकम्पः । इष्टानिष्टेषु तुष्टिव्यसनविरहितो मायिकत्यावबोधा- ज्ज्योत्स्नाभिस्त्वन्न खेन्दोरधिकशिशिरितेनात्मना सञ्चरेयम् ॥ ७ ॥ नो मुह्यन्निति | नो मुह्यन् परवशतामगच्छन् । क्षुत्तृडाद्यैः भयतर्षकृच्छादिभिः भवसरणिभवैः अनादिसंसारमार्गोत्थैः । त्वन्निलीनाशयत्वात् त्वाय ईश्वरे समाहित - चित्तवृत्तित्वात्। किञ्च, चिन्ताया उपासनाया: सातत्यं सततमनुष्ठानं तदस्यास्ती- ति तथा । निमिषलवमपि निमेषकालस्यार्धमपि कालं त्वत्पदाद् भगवत्पादारविन्द भजनाद् अप्रकम्पः प्रमादरहितः इष्टानिष्टेषु सत्सु तुष्टिव्यसनविरहितः इष्टेषु पुत्रजन्मादिषु तुष्टिविहितः अनिष्टेषु पुत्रमरणादिषु व्यसनविरहितः । मायिकत्वा- वयोघाद् शरीरादेर्भोग्यस्य मायानिर्मितत्वानुसन्धानात् । ज्योत्स्नाभिः शीतलाभिदीं- प्तिभिः [त्वन्नखेन्दोः त्वत्पादनखचन्द्रस्य | अधिकशिशिरितेन सन्तापराहित्यादति- शयेन सजातानन्देन आत्मना मनसा उपलक्षितः सन् सञ्चरेयं वर्तेय ॥ ७॥ - भूतेष्वेषु त्वदैक्यस्मृतिसमधिगतौ नाधिकारोऽधुना चेत् त्वत्प्रेम त्वत्कमैत्री जडमतिषु कृपा द्विट्सु भूयादुपेक्षा । अर्चायां वा समर्चाकुतुकमुरुतरश्रद्धया वर्धतां में त्वत्संसेवी तथापि द्रुतमुपलभते भक्तलोकोत्तमत्वम् ॥ ८॥