पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/३२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नारायणीये इति । जन्मकर्माणि अवतारतच्चरितानि तन्निबन्धनानि नामानि च क्षेमाणि पुरुषार्थ रूपाणि तदुपायभूतानीत्यर्थः । एतच जन्मादित्रयविशेषणम् । भूयः पुन: पुनर्गायन् कीर्तयन् । एतच्च स्मरणादीनामप्युपलक्षणम् । एवं साधन- भक्त्यनुष्ठानेन सञ्जातप्रेमलक्षणभक्तेः संसारधर्मातीतां गतिमाहू तदुभयत इति । जन्मकर्मकीर्तनानामकीर्तनाञ्च हेतोरित्यर्थः । प्रद्रुतमतिशीत्रं प्रद्भुतः द्रवीभूत आत्मा मनो यस्य स प्रहुतात्मा कदाचिद् उद्यद्धासः भक्तपराजितं भगवन्त माकलय्य सहस्तताडनं हसतीत्यर्थः । कुहचिद् क्वचिद् रुदन्नपि एतावन्तं काल- मुपेक्षितोऽस्मीति रोदिति, अथवा भगवति चित्तस्यानेकाग्रताखेदात् । यद्वा तद्रूपसाक्षात्काराद्धर्षा श्रूणि मुञ्चन्निति । क्वापि कदाचिद् गर्जन् अत्यौत्सुक्यादुच्चै- शशब्दं कुर्वन् अतिहर्षेण प्रगायत् कचिच जितं जितमिति प्रनृत्यन् प्रकर्षण सहस्ततालं सशिरः कम्पं नर्तनं कुर्वन् । किं तर्हि भक्तोऽयमिति परान् प्रति प्रकाशयितुमेतदिति चेद्, नेत्याह – उन्मादीवेति । ग्रहगृहीत इत्यर्थः | अयि भगवन् ! मयि करुणां कुरु, येनाहमेवं लोकबायैश्चरेयम् अलौकिको भूत्वा चरेयम् ॥ ५ ॥ । भूतान्येतानि भूतात्मकमपि सकलं पक्षिमत्स्यान् मृगादीन् मर्त्यान् मित्राणि शत्रूनपि यमितमतिस्त्वन्मयान्यानमानि | त्वत्सेवायां हि सिध्येन्मम तव कृपया भक्तिदाढ्यै विराग- स्त्वत्तत्त्वस्यावबोधोऽपि च भुवनपते ! यत्रभेदं विनैव ॥६॥ भूतानीति । किञ्च भूतानि पृथिव्यादीनि पञ्चैतानि । भूतात्मकं पाञ्च- भौतिक सकलं चराचरात्मकमपि पक्षिमत्स्यान् मृगादीन् जलस्थलाद्याश्रितान् मर्त्यान् मित्राणि शत्रूनपि बन्धुशत्रूदासीनांश्च त्वन्मयानि त्वद्रूपाणीति यमित- मतिः एतानि सर्वाणि श्रीहरे रूपाणीति अनुसन्दधानः सन् आनमानि प्रणामं करवाणि । ननूक्तलक्षणा भक्तिर्योगिनामपि बहुजन्मसाध्या कथं मजनमात्रेणैकस्मिन् जन्मनि भवेदित्याशङ्कयाह -- त्वत्सेवायां हि सिध्येदिति । सर्वकर्मणां समर्पण, १. 'पद' क. पा... २. 'ति बोधाय' क. पाठ:. ३. 'श्य: अ' क. ग. पाठः. ४. "नि हुश्रुतानि । भूक. ग. पाठः,