पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/३२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशकम् – ९१] भक्ति स्वरूपतत्कार्यवर्णनम् | 40 भक्तेरिति । उत्पत्तिश्च वृद्धिश्च उत्पत्तिवृद्धी तवेश्वरस्य चरणौ जुषन्ते सेवन्ते इति चरणजुषो भक्ताः, तेषां सङ्गमेन संसर्गेणैव पुंसां शरीरिणाम आसाद्ये लब्धुं शक्ये, नान्योऽत्रोपाय इत्यर्थ: । 'सत्सेवया विना कस्य विष्णुभक्तिः प्रजायत' इति वचनात् । तर्हि सत्सङ्गमः कथं स्यादित्यत आह- पुण्यभाजामिति । अनेकज मार्जि तपुण्यसञ्चयानामेव सत्सङ्गमः स्यादिति भावः । अत्रानुरूपं दृष्टान्तमाह - श्रिय इवेति । यथा श्रियो धनधान्यादेरुत्पत्तिवृद्धी श्रीमता सङ्गमेनैवोत्पाद्ये, तथेत्यर्थः । हे देव! श्रीकृष्ण! मम खलु सततं तत्सङ्गः तेषां भक्तानां सङ्गः संसर्गः भूयात् । तन्मुखात् तेषां तव चरणजुषां मुखाद् उन्मिषद्भिः मिथस्त्वच्चरित प्रस्तावैप्रादुर्भूतैः न तु तैरुपदिष्ठैः । अनेन च तेषां भगवञ्चरितवर्णनशीलत्वं व्यज्यते । त्वन्माहात्म्य - प्रकारैः सव विष्णोर्माहात्म्यस्य प्रकारैः श्रवणैकीर्तनस्मरणाद्याश्रिततया मार्गभेदैः भवति श्रीकृष्णे सुदृढा अनपायिनी उद्भूतपापा यथा दूरतोऽपसारिततिमिरनिकर एव तरणिरुदेति, तद्वद् दूरोत्सारितदुरितानिचया प्रेमलक्षणा भक्तिश्च मम सततं भूयादित्यनुषज्यते ॥ ४ ॥ अथ सत्सङ्गमात्रेण स्वस्य साधनभक्तिद्वारा साध्यभक्त्युत्पत्तिप्रकारमुत्पश्यन् प्रथमं स्वस्य भक्तिमार्गेऽधिकारप्रतिमाह w श्रेयोमार्गेषु भक्तावधिकबहुमतिर्जन्मकर्माणि भूयो गायन क्षेमाणि नामान्यपि तदुभयतः मद्भुतं मद्रुतात्मा | उद्यद्धासः कदाचित कुहचिदपि रुदन कापि गर्जन् प्रगाय- मादी मनृत्यन्नयि कुरु करुणां लोकबाह्यश्चरेयम् ॥ ५ ॥ श्रेयोमार्गेष्विति । श्रेयसः पुरुषार्थस्य मार्गेषु प्राप्तिसाधनेषु कर्मज्ञान- तपोदानवतादिषु मध्ये भक्तौ भक्तिमार्गे अधिका बहुमतिः श्रद्धा यस्य सोऽधिक- बहुमतिः । सोऽयं भक्तिमार्गेऽधिक्रियत इति भावः । यदुक्तं- “यहच्छया मत्कथादौ जातश्रद्धस्तु यः पुमान् । न निर्विष्णो नातिसक्तो भक्तियोगोऽस्य सिद्धिदः ॥”