पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/३१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इति । कुहाचित् कुत्रापि न स्खलति अनुष्ठानवैकल्यादिना न प्रत्यवायी स्यात् । नापि फलस्यानित्यतया पुनरपि संसारी स्यादित्यर्थः । इति यत्, तद्भयतमं मन्य इति पूर्वेणान्वयः ॥ १ ॥ भगवद्धमनाह - भूमन् ! कायेन वाचा मुहुरपि मनसा स्वद्धलमेरितात्मा यद्यत् कुर्ये समस्त तदिह परतरे त्वय्यसावर्पयामि । जात्यापीह श्वपाकस्त्वयि निहितमनः कर्मवागिन्द्रियार्थ- प्राणो विश्वं पुनीते न तु विमुखमनास्त्वत्पदा विश्वर्यः ॥२॥ भूमन्निति | कायेन शिरःपाण्यादिना वाचा वागिन्द्रियेण मनसा अन्तरि- न्द्रियेण | अपिशब्दात् सर्वेन्द्रियैरित्यर्थः | तब अन्तर्यामिण: बलेन वासनारूपेण प्रेरित आत्मा मनो यस्य स तथा मुहुः यद्यत् कुर्वे इति । अयमर्थ :- न केवलं विहितं कर्मैवेति नियमः, किन्तु स्वभावानुसारि लौकिकमपि कर्म श्रीकृष्णे समर्पि- तं चेद् भगवद्धर्मो भवत्येवेति । असावहं तत् समस्तं परतरे परमात्मनि त्वयि श्रकृिष्ण अर्पयामि श्रीकृष्णायेदमिति समर्पयामि । अयं चाशयः - यथा राज्ञा प्रेरितस्य राजपुरुषस्य कर्म राज्ञः प्रीतये भवति, तथा सर्वात्मनेश्वरेण प्रेरितस्य मम सकलमाप कर्म श्रीकृष्णप्रीतये स्यादिति । अथवा तत्समर्पणमन्त्रपूर्वकं सम- पयामीति । एवं भगवद्धर्मानुष्ठातुर्माहात्म्यमाह - जात्येति । मनः सङ्कल्पविकल्पा- मकं मानसं कर्म । कर्म कायिकम् | वागू वाचिकम् । इन्द्रियाणि ज्ञानकर्मलक्षणानि । अर्थास्तद्विषयाः | प्राणाः पञ्च | विधिप्रतिषेधलक्षणं सर्वे कर्म शरीरवाङ्मनःप्र वानं, तदङ्गतया चेतरेन्द्रियकर्मेति त्रयाणां पृथगुपादानम् | त्वयि ईश्वरे निहिताः समर्पिताः मनःकर्मवागिन्द्रियार्थत्रणा येन तथाभूतः सन् जात्या श्वपाकोऽपि विश्वं पुनीते । किमुच्यते स्वात्मानं पुनीत इति । त्वत्पदाद् विमुख स्मरणादिरहितं मनो यस्य स तथा । एवम्भूतस्तु विश्वर्यः सन्नपि नासौ परं चात्मनं वो शोध- यितुं समर्थ इत्यर्थः ॥ २ ॥