पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/३१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथैकादशस्कन्धपरिच्छेदः । प्रवृत्तिलक्षणा लीला प्राध्यैः पद्यैः प्रकीर्तिता | निवृत्तिलक्षणा सेयं हरेलींला निरूप्यते ॥ सम्प्रति भक्तानां मुक्तिमार्गप्रदर्शनाय भगवद्गुणान् वर्णयितुमारभमाणः प्रथ- मं मोक्षोपाय मौलिभूतस्य भगवदुपासनस्य माहात्म्यं दर्शयति --- श्रीकृष्ण! त्वत्पदोपासनमभयतमं बद्धमिथ्यार्थदृष्टे- मर्त्यस्यार्तस्य मन्ये व्यपसरति भयं येन सर्वात्मनैव । यत्तावत् त्वत्प्रणीतानिह भजनविधीनास्थितो मोहमार्गे धावन्नप्यावृताक्षः स्वलति न कुहचिद् देवदेवाखिलात्मन् ! ॥१॥ - श्रीकृष्णेति । बद्धा रूढपदा मिथ्यार्थे शरीरादौ दृष्टिः अहम्ममाभिमानो यस्य, अत एव मर्त्यस्य जननमरणधर्मिणः, तस्मादार्तस्य आध्यात्मिकादिदुःख- पीडितस्य त्वत्पदोपासनमभयतमं न विद्यते भयं यस्मात् तदभयम् अतिशयेना- भयम् अभयतमं भवभयनिवर्तकं मन्ये | अभयतमत्वमाह - येनेति । येन त्वत्प- दोपासनेन भयं सर्वात्मनैव निरवशेषमेव व्यपसरति अपगच्छति । उपासनसाथ- नेषु च भगवद्धर्मोऽकुतोभय इत्याह - यदिति । इह भगवद्भजनमार्गेषु मध्ये त्व- हह्मणीतान् भक्तानुग्रहाय भगवतैव स्वमुखेनैव प्रोक्तान् अत एव भागवताख्यान् भजनविधीन् धर्मान् तावत् सत्सङ्गद्वारा क्रमादास्थित आश्रितः सन् मोहमार्गे अज्ञानद्वारभूतरथ्यापणगणिकालयगोष्ठयादिप्रदेशेष्वास्थितो धावन् किञ्चित् किञ्चि- दतिक्रम्यातिक्रम्य अतिशीघ्रमनुतिष्ठन् अपिच आवृताक्षः निमीलितश्रुतिस्मृत्याख्य नयनद्वन्द्वः । अज्ञात्वापीत्यर्थः । यदाहुः M- W " श्रुतिस्मृती उभे नेत्रे विप्राणां परिकीर्तिते । एकेन रहितः काणो द्वाभ्यामन्धः प्रकीर्तितः ॥” १. 'मं जननमरणभय' क. ग. पाठः, २. 'श आस्थि' क. पाठः,