पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/३१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशकम् - ९०] आगमादीनां भगवत्येव परमतात्पर्यनिरूपणम् । शस्य प्राधान्यमिति गिरिशभजनरुच्युत्पादका एवैते, न तु विष्णोस्तामसत्वपरा- जयादिज्ञापनादौ प्रमाणभूताः ॥ १० ॥ उक्तेऽर्थे स्वकपोलकल्पितत्वशङ्कां वारयन् कविः श्रोतृश्रद्धां सम्पादयति - यत्किञ्चिदप्यविदुषापि विभो ! मयोक्तं तन्मन्त्रशास्त्रवचनाद्यभिदृष्टमेव । व्यासोक्तिसारमयभागवतोपगीत ! क्लेशान् विधूय कुरु भक्तिभरं परात्मन् ! ॥ ११ ॥ यत्किञ्चिदिति | व्यासोक्तयः पुराणानि तेषां सारमयं श्रीभागवतं, श्री- वेदव्यासस्य कृतकृत्यतापादकत्वात्, तदुपगीत ! तत्प्रतिपाद्य ! ।। ११ ।। ५५९ ।। इति आगमादीनां भगवत्येव परमतात्पर्यनिरूपणं नवतितमं दशकं सैकम् । इति नारायणीयस्तोत्रव्याख्यायां भक्तप्रियाख्यायां दशमस्कन्धपरिच्छेदः । 3 आदितः लोकसङ्ख्या ९३४.