पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/३१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

"विष्णुर्विरिञ्चश्च यत्पादपद्मं शिरसा बिभर्ति " इत्यादिवचनैरेर्निकृष्टतो व्यासेनैवोक्तेत्याशङ्कच तस्यार्थवादत्वेनातत्परत्वमाह 'ये स्वप्रकृत्यनुगुणम्' इति द्वाभ्यां - ये स्वत्रकृत्यनुगुणो गिरिशं भजन्ते तेषां फलं हि दृढयैव तदीयभक्त्या व्यासो हि तेन कृतवानधिकारिहेतोः स्कान्दादिकेषु तव हानिवचोऽर्थवादैः ॥ ९ ॥ य इति । “यस्येच्छा जायते यस्मिन् तं देवं स समाश्रयेद्" इति न्यायेन स्वप्रकृत्यनुगुणं प्राग्जन्मबासनानुसारेण । तेषां दृढया तदीयभक्त्यैव फलं भविष्यतीति यत् तेन हेतुना व्यासो अधिकारिहेतोः गिरीशभजनाधिकारिणं प्रति अर्थवादैः तर्फे हानिवचो न्यूनतावचनानि कृतवान् । अर्थवांदाश्च_गिरिश- भजनरुच्युत्पादनार्थाः ॥९॥ ननु रुच्युत्पादनार्थे चेद्, गिरिशं स्तूयादेव, नान्यहानिवचः कुर्यादित्यत्राह- भूतार्थकीर्तिरनुवादविरुद्धवादौ त्रेधार्थवादगतयः खलु रोचनार्थाः । स्कान्दादिकेषु बहवोऽत्र विरुद्धवादा- स्त्वत्तामसत्वपरिभूत्युपशिक्षणाद्याः ॥ १० ॥ - 3 भूतार्थेति । भूतार्थकीर्तिः यथावस्थितार्थकीर्तनम् अनुवादोऽविरुद्धगुणा- रोपः, प्रमाणान्तरविरुद्धार्थकथनं विरुद्धवाद इति त्रेधार्थवादस्य गतयो मार्गाः । त्रयोऽपि रोचनार्था एव । तत्र तेषां मध्ये त्वत्तामसत्वादयो विरुद्धवादाः प्रमाणा- न्तरविरुद्धवचनानि ते च रोचनार्थाः | विष्णुरपि यत्प्रसादमपेक्षते, अहो गिरि- १. 'ता श्रीवेदव्या' क. ग. पाठः . २. 'णं' व्याख्यासम्मतः पाठः, ३. 'नुसारेण प्रा ४. 'व विष्णोर्हा' क. ग. पाठः, 'स्तुवीतैव व्यासः । किमर्थे द्दा- 'निवचः कृतवान् इत्याशङ्कायामाह' क. ग. पाठः, ६. 'वलम्बते' क. ग. पाठः, क. ग. पाठ..