पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/३१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मूर्तित्रयेति । मूर्तित्रयातिगं चतुर्थ परमेश्वरं त्वां कलायसुषमं श्रीकृष्ण- मुवाच । प्रणवे प्रणवार्थत्वेन तत्र निष्कलध्यानाङ्गत्वेन सकलं त्वामेव निजगाद, नान्यं शिवमित्यर्थः ॥ ६॥ पुराणानां विष्णुमहिमपरत्वं पुराणसंग्रहे स्पष्टमित्याह- समस्त सारे च पुराणसंग्रह विसंशयं त्वन्महिमैव वर्ज्यते । त्रिमूर्तियुक्सत्यपदत्रिभागतः परं पदं ते कथितं न शूलिनः ॥७॥ समस्तेति । ननु वैकुण्ठलोकः सत्यलोकान्तर्गतः ब्रह्माण्डाद् बहिष्ठैस्तु नहि लोक इति चेद् नैवमित्याह - त्रिमूर्तीति । मूर्तित्र्ययुक्तेभ्यः सत्यलोकस्थ- लोकत्रयेभ्यः परं ब्रह्माण्डाद् बहिष्ठं यत् पदं लोकः, तत् ते तब वैकुण्ठलोक एवेति पुराणसंग्रहे कथितम् ॥ ७ ॥ यद् ब्राह्मकल्प इह भागवतद्वितीय- स्कन्धोदितं वपुरनावृतमीश ! धात्रे । तस्यैव नाम हरिशर्वमुखं जगाद श्रीमाधवः शिवपरोऽपि पुराणसारे ||८|| यदिति । यस्मिन् ब्रह्माभूत् स ब्राह्मः कल्पः तस्मिन् भगवता धात्रे प्रत्यक्षीकृतं यद् वपुः, तस्य वपुष एव हरिशर्वमुखं नाम जगाद श्रीमाधवाचार्यः पुराणसारे । यद्यप्यसौ शिवपरस्तथापि पुराणसारे घात्रे दर्शितस्य वपुषो न शिवमूर्तित्वमुक्तवान्, सर्वमयस्तु त्वमेवेति च त्यामेवोक्तवानित्यर्थः ॥ ८ ॥ ननु “गोप्ता विष्णुस्तमोमूर्तिर्व्यापारेण तु सात्विकः ।” "तदधीनो हरिः साक्षादू"