पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/३१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पक्षे "विष्णुं पश्चात्मकं वन्दे " इत्युक्ते श्रीभागवतपक्षे परात्मवपुः परमात्मस्वरू- पस्त्वं विष्णुरेवेत्यर्थः। एवं विकुण्ठपढ़ो बैकुण्ठवासी त्वमेबेश्वरशब्दवाच्यः । त्रयो भागा ब्रह्मविष्णुशिवलोका यस्मिंस्तत् त्रिभागं तस्मिन् सत्यपदे सत्यलोके त्रयो ब्रह्मविष्णुगिरिशाः तेषां भावस्त्रित्वं, सत्यलोकस्थब्रह्मविष्णुशिवलोकेषु त्रिमूर्तित्व- मपि त्वमेव भजसीत्यर्थः । यथा हरिवंशे-- 65 'अहं त्वं सर्वगो देव ! त्वमेवाहं जनार्दन ! | आवयोरन्तरं नास्ति शब्दैरर्थैर्जगत्पते ! ॥ " इति ॥ २ ॥ ननु यदि विष्णुशिवयोरभेदः, तर्हि कथं विष्णोः प्राधान्यमुच्यते | सत्यम् । यद्यपि तत्त्वदृष्ट्या भेदो नास्ति, तथापि गौणो भेदः उत्कर्षो निकर्षश्चानयोर्भ- वत्येवेत्याह--- इति ॥ ३ ॥ तत्रापि सात्विकतनुं तव विष्णुमाहु- र्धाता तु सच्चविरलो रजसैव पूर्णः । सत्त्वोत्कटत्वमपि चास्ति तमोविकार- चेष्टादिकं च तव शङ्करनाम्नि मूर्ती ॥ ३ ॥ तत्रापीति । तत्र त्रिमूर्तिषु तव सात्त्विक शुद्धसत्त्वमयीं तनुं विष्णुं केवलविष्णुशब्दवाच्या माहुरित्यर्थः। तदुक्तं – “राजसो भगवान् ब्रह्मा सात्त्विको विष्णुरुच्यते । ईषत्तमोगुणो रुद्रः सृजत्यवति हन्त्यजः ॥” ननु "तत्रेश्वरस्तु स विकुण्ठपदस्त्वमेवे”त्युक्तम् । तदयुक्तम्, “अम्बिकापतिरीशान उपास्यो गुणमूर्तिभिः । •ईश्वरः परमात्मैको मायया स त्रिधा स्थितः ॥ 39 इति वचनादिति चेदू, नेत्याह— तं च त्रिमूर्त्यतिगतं परपूरुषं त्वां शर्वात्मनापि खलु सर्वमयत्वहेतोः । शंसन्त्युपासनविधौ तदपि स्वतस्तु त्वद्र्पमित्यतिदृढं बहु नः प्रमाणम् ॥ ४ ॥