पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/३११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वृकेति । मोहिनी विष्णुमाया | तव विष्णोर्महत्त्वं सर्वेषां शर्वादीनां देवानां जैत्रं न्यूनतापादकम् । तत्र वृकादिचतुर्णां चरितेषु शिवस्य जैत्रं त्वन्महत्त्वम्, इन्द्रयाग - नन्दहरण- बालानयन - अनलपान- वत्सस्तेयादिषु इन्द्रवरुणंयमानलब्रह्मा- दिजैत्रं त्वन्महत्त्वमिति स्थितम् अत्रैव दृढीकृतम् । अत्र हेतु : - परमात्मन्निति । निरुपाधिकपरमात्मत्वमेवोपपादयति - निष्कलेति । निष्कले परमात्मनि ततोऽवक् सकलेषु ब्रह्मविष्णुगिरीशादिषु च यत् किमप्यभिन्न रूपं परमात्मतत्त्वम् अवभातं, तदेव तव विष्णो रूपं तद्रूपं च तवैव, न तेषाम् | हि यस्मादेवं विष्णोरवस्थाभे- दा गिरिशादयः तस्मात् त्रिमूर्तिषु विष्णोरेव महत्त्वमुक्तमित्यर्थः । तदुक्तं श्रीभागवते -- " " सत्त्वं रजस्तम इति प्रकृतेर्गुणास्तैर्युक्तः परः पुरुष एक इहास्य धत्ते । स्थित्यादये हरिविरिञ्चहरेति संज्ञाः श्रेयांसि तत्र खलु सत्त्वतनोर्नृणां स्युः ॥ " इति ॥ १ ॥ (स्क. १. अ. २. लो. २३) " एवमेको महादेवो मायया गुणरूपया । नामरूपक्रियाभैदैभिन्नवत् प्रतिभासते || " . इति वचनात् शिवस्यैबावस्थाभेदो मूर्तित्रयप्राधान्यं चेत्याशङ्कय संज्ञाभेद एवायं, न संज्ञिनि वस्तुस्वरूप इति परिहरति -- मूर्तियेश्वरसदाशिवपञ्चकं यत् पाहुः परात्मवपुरेव सदाशिवोऽस्मिन् । तत्रेश्वरस्तु स विकुण्ठपदस्त्वमेव त्रित्वं पुनर्भजसि सत्यपदे त्रिभागे ॥ २ ॥ सूतिंत्रयेति । ब्रह्मविष्णुगिरिशेश्वरसदाशिवाख्यमूर्तिभेदेन पञ्चात्मकः शिव इति यत् प्राहुः शैवाः, तंत्र शैवानां पक्षे यः सदाशिवैशब्दवाच्यः सोऽस्मिन् १. 'तुत्वेन सम्बोधयति- हे परमात्मन् ! | नि" कं. ग. पाठ... २. 'तु ब्रह्मगिरिशादेः । हि' क. ग. पाठः. ३. 'यं विवादो, न" क. ग. पाठः ४, 'ववा' ख. पाठः