पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/३०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मोक्तारमिति । स दैत्यः रुद्रमेव प्राद्रवत् । बन्धमुक्तो हरिणपतिमृगेन्द्रः मोक्तारमिव । तव पदं बैकुण्ठम् । तस्थिषे दानवाय वृकासुरायात्मानं प्रकाशय स्थितवान् ॥ ५॥ भद्रं ते शाकुनेय ! भ्रमसि किमधुना त्वं पिशाचस्य वाचा सन्देहथेन्मदुक्तौ तब किमु न करोष्यङ्गुलीमङ्ग ! मौलौ । इत्थं त्वद्वाक्यमूढः शिरसि कृतकरः सोऽपतच्छिन्नपातं भ्रंशो ह्येवं परोपासितुरपि च गतिः शूलिनोऽपि त्वमेव ॥ ६ ॥ भद्रमिति | छिन्नपातमपतत् छिन्नमूलतरुवत् पपात | परोपासितुरप्येवं त्वत्कृतो अंशो भवति । शूलिनोऽपि गतिः शरणं च स्वं विष्णुरेव भवति ॥ ६॥ भृगुं किल सरस्वतीनिकटवासिनस्तापसा- त्रिमूर्तिषु समादिशन्नधिकसत्त्वतां वेदितुम् । अयं पुनरनादरादुदितरुद्धरोषे विधौ हरेऽपि च जिर्हिसिषौ गिरिजया धृते त्वामगात् ॥ ७॥ भृगुमिति । अधिकसत्त्वतां महत्त्वम् । अयं भृगुः ब्रह्मपुत्रः अकृतमणा- मस्त दनादरा दुदितः पुनश्च रुद्धो रोषो येने तथाविधे सति विधी हरे रुद्रेऽपि च आतृतेन परिरम्भणारम्भे तदनादरजनितरुषा जिहिंसिषौ हन्तुमिच्छति सति गिरिजया धृते वारिते च सति वैकुण्ठमगात् ॥ ७ ॥ सुप्तं रमा भुवि पङ्कजलोचनं त्वां विप्रे विनिम्नति पदेन मुदोत्थितस्त्वम् । सर्वे क्षमस्व मुनिवर्य ! भवेत् सदा मे त्वत्पादचिहमिह भूषणमित्यवादीः ॥८॥ सुप्तमिति । त्वत्पादचिह्नं श्रीवत्सारख्यम् ॥ ८ ॥ 'किंघ. पाठः. २. 'अस्य त' क. ग. पाठः.