पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/३०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वृकासुरवधवर्णनम् । भ्रष्टा भवन्ति बत कष्टमंदीर्घदृष्ट्या स्पष्टं टकासुर उदाहरणं किलास्मिन् ॥ २ ॥ सय इति । सद्यः अल्पाभ्यां गुणदोषाभ्यां सद्यःप्रसादाः सद्योरुषिताश्च विधिशङ्करादयः । केचिद् निजगुणानुगुणं स्वस्ववासनानुसारेण तान् भजन्तः अन- न्तरमशान्ततया तद्रोषेणैव भ्रष्टा भवन्ति । कष्टं बतेति खेदे | अदीर्घदृष्ट्या अति- चिरविष्णुभजनमान्द्यादेवान्यभजनमिति भावः । तदुक्तं -- “ रागी स पुरुषोऽवश्यं फलं प्रेप्सति शङ्करात् । ततः फलं स लभते ततस्तं विस्मरिष्यति ॥ " इति । अस्मिन्नर्थे वृकासुर: स्पष्टम् अनुरूपम् उदाहरणम् ॥ २ ॥ शकुनिजः स हि नारदमेकदा त्वरिततोषमपृच्छदधीश्वरम् । सच दिदेश गिरीशमुपासितुं न तु भवन्तमवन्धुमसाधुषु || ३ || शकुनिज इति । स हि वृकासुरः त्वरिततोष सद्यःप्रसादमधीश्वरमपृच्छत् || तपस्तप्त्वा घोरं स खलु कुपितः सप्तमदिने शिररिछच्या सद्यः पुरहरसुपस्थाप्य पुरतः । अतिव॒द्रं रौद्रं शिरसि करदानेन निधनं जगन्नाथाद् वव्रे भवति विमुखानां क शुभधीः ॥ ४॥ तप इति । उपस्थाप्य प्रत्यक्षीकृत्य | अतिक्षुद्रम् असारम् | रौद्रं क्रूरम् | भवति विष्णौ ॥ ४ ॥ मोक्तारं बन्धमुक्तो हरिणपतिरिव प्राद्रवत् सोऽथ रुद्रं दैत्याद् भीत्या स्म देवो दिशि दिशि बलते पृष्ठतो दत्तदृष्टिः । तूष्णीके सर्वलोके तब पदमधिरोक्ष्यन्तमुद्रक्ष्य श दूरादेवाग्रतस्त्वं पटुवटुवपुषा तस्थिषे दानवाय ॥ ५ ॥