पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/३०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आर्ति तीर्खा समस्ताममृतपदमगुः सर्वतः सर्वलोकाः स त्वं विश्वार्तिशान्त्यै पवनपुरपते ! भक्तिपूर्त्यै च भूयाः ॥ १२ ॥ सोऽयमिति । यत्र श्रीकृष्णे सौहार्दादिभिः योगभेदैः श्रीकृष्णे मनोनि- वेशनोपायविशेषैः । तत्र सौहार्दात् पाण्डवादय:, भीत्या कंस:, स्नेहाद् यदवः, द्वेषात् शिशुपालादयः, अनुरागाद् गोप्यः । सर्वतः सर्वत्र 1. सर्वे लोकाः समस्ता- माध्यात्मिकादिरूपाम् आर्ति पीडां ती अंतिक्रम्य अमृतपदं मोक्षम अगुः जग्मुः | विश्वार्तिशान्त्यै सकलपीडा पहत्यै भक्तेः प्रारब्धायाः पूत्यै प्रवृद्धये च भूयाः ॥ १२ ॥ इत्यर्जुनगवपिनयनवर्णनम् अष्टाशीतितमं दशकं सद्विकम् । रमाजाने ! जाने यदिह तव भक्तेषु विभवो न सम्पधः समस्तदिह मदकृत्वादशमिनाम् । प्रशान्ति कृत्वैव प्रदिशसि ततः काममखिलं प्रशान्तेषु शिमं न खलु भवदीये च्युतिकथा ॥१॥ रमाजान इति । हे रमाजाने ! लक्ष्मीपते ! तव भक्तेषु विभवः फलं न सद्यः किञ्चिद् भजनमात्र एव सम्पद्यः परिणतो न भवति यत्, तद् मद्कृत्त्वाद् विभ वस्य मदजनकत्वादिति जाने । अतः अशमिनाम् अशान्तानां प्रशान्ति कृत्त्रैव कामम् अभीष्टमखिलं प्रदिशसि । मागेव प्रशान्तेषु तु क्षिप्रं प्रदिशा से । अतस्त्वदीये त्वद्भक्ते न खलु च्युतिकथा अंशस्य कथा शब्दोऽपि नास्त्येव ॥ १ ॥ विधिशङ्करादयस्तु न तथेत्याह- सद्य:प्रसादरुषितान् विधिशङ्करादीन् केचिद् विभो ! निजगुणानुगुणं भजन्तः ।

  • सम्पयत इति सम्पयः । 'कृभ्वस्तियोगे सम्पद्यकर्तरि (५. ४. ५०.) इत्यत्र

कर्तृशप्रत्ययान्ततया निपातनात् साधुता |