पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/३०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नयेतं द्रागेनानिति खलु वितीर्णान् पुनरमून द्विजायादायादाः प्रणुतमहिमा पाण्डुजनुषा ॥९॥ युवामिति । युवां कृष्णार्जुनौ मामेव मदंशभूतावेव द्वौ अधिकविवृता- न्तर्हिततया विभिन्नौ । एकः शुद्धसत्त्वोपाधिकतयाधिकविवृतः प्रकटितनिजैश्वर्यः । अन्य उपाध्यन्तर्हित निजैश्वर्यः । अतो जीवेश्वररूपेण विभिन्नौ द्विधाभूतौ सम्द्रष्टुं स- मीपे द्रष्टुमहं स्वयं द्विजमुतानाम् आनीतवान् । एनान् द्राग् झटिति नयेतं द्विज - वरनिकटं प्रापयेतम् इति वितीर्णान् दत्तान् अभून् द्विजसु न् आदाय ब्राह्मणायादाः दत्तवान् । पाण्डुजनुषा पार्थेन प्रणुतः स्तुतो महिमा यस्य ॥ ९ ॥ एवं नानाविहारैर्जगदभिरमयन् दृष्णिवंशं प्रपुष्ण- श्रीजानो यज्ञभैरतुलविहृतिभिः प्रीणयन्त्रेणनेत्राः | भूभारक्षेपदम्भात् पदकमलजुषां मोक्षणायावतीर्णः पूर्ण ब्रह्मैव साक्षाद् यदुषु मनुजतारूषितस्त्वं व्यलासीः ॥ १० ॥ एवमिति । भूभारक्षेपमिषेण मनुजतया रूषितो बहिर्लिप्तः ॥ १० ॥ प्रायेण द्वारवत्यामवृतदयि तड़ा नारदस्त्वद्रसाई- स्तस्माल्लेभे कदाचित् खलु सुकृतनिधिस्त्वत्पिता तत्त्ववोधम् । भक्तानामग्रयायी स च खलु मतिमानुद्धवस्त्वत्त एवं प्राप्तो विज्ञानसारं स किल जनहितायाधुनास्ते बदर्याम् ॥ ११ ॥ प्रायेणेति । श्रीनारदः प्रायेण दक्षशापाच्चिरमेकत्र स्थातुमशक्यतया गता- गतपूर्वकं द्वारवत्यामवृतद् वर्तते स्म । तदा तस्मान्नारदात् । जनहिताय भक्तानां ज्ञानोपदेशाय ॥ ११ ॥ सोऽयं कृष्णावतारो जयति तब विभो ! यत्र सौहार्दभीति- स्नेहद्वेषानुरागप्रभृतिभिरतुलैरश्रमैर्योगभेदैः ।