पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/३०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशकम् - ८७ ] कुचेलोपाख्यान वर्णनम् । २९७ त्रपाजुषोऽस्मात् पृथुकं बलादथ प्रगृह्ण सृष्टौ सकृदाशिते त्वया । कृतं कृतं नन्वियतेति सम्भ्रमादरमा किलोपेत्य करें रुरोध ते ॥ ६ ॥ त्रपाजुष इति । त्रपाजुषः श्रीपतये पृथुकप्रसृतिप्रदानलज्जयावाङ्मुखाद् बलात्कारेण पृथुकं प्रगृह्य त्वया मुष्टौ सदाशिते सति रमा श्रीः सम्भ्रमादुपेत्ये- यता प्रसादेन कृतं कृतम् अलमल ननु इतोऽधिकत्वत्प्रसादोचित सम्पत्सम्पादनेऽह- मसमर्थेति ते करं रुरोध किल ॥ ६ ॥ भक्तेषु भक्तेन स मानितस्त्वया पुरीं वसन्नेकनिशां महासुखम् । बता द्रविणं विना ययौ विचित्ररूपस्तव खल्वनुग्रहः ॥ ७ ॥ भक्तेष्विति । भक्तेषु उद्धवादिषु भक्तेन प्रीतियुक्तेन त्वया सः कुचेलः मानितः पूजितः, चतेति खेदे, अपरेधुः श्वोमूते द्रविणं धनं विना ययौ । विचि त्ररूपः समक्षासमक्षादिभेदेन बहुप्रकारः ॥ ७ ॥ r यदि हायाचिष्यमदास्पदच्युतं वदामि भायौ किमिति वजन्मसौ | त्वदुक्तिलीलास्मितमनधी: पुन: क्रमादपश्यन्मणिदीप्रमालयम् || ८ || यदीति । यद्यहमयाचिण्यं तच्युतोऽदास्यत् । नाई याचितवान् अच्यु- तश्च न दत्तवानित्यर्थः । अतो भार्यो किं वदामीति चिन्तयन्नेव व्रजन् तवोक्तौ ली- लायां स्मिते च ममा धीर्यस्य | मणिभी रत्नैः दीमं दीपनशीलम् आलयं निजभवनं क्रमादपश्यत् ॥ ८ ॥ किं मार्गविभ्रंश इति भ्रमन् क्षणं गृहं प्रविष्टः स ददर्श वल्लभाम् । सखीपरीतां मणिहेमभूषितां बुवोध च त्वत्करुणां महाहुताम् ॥ ९ ॥ किमिति । किं मार्गविश्रंशः पुनरपि द्वारकामागतवानमिति क्षणकालं भ्रमन् गृहं प्रविष्टः वल्लभां दृष्ट्वा महाद्भुतां त्वत्करुणामात्मसम्पदं तद्धेतुकां बुबोध च ॥९॥