पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/३०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कुचेलनामा भवतः सतीर्थ्यतां गतः स सान्दीपनिमन्दिरे द्विजः । त्वदेकरागेण धनादिनिःस्पृहो दिनानि निन्ये गशमी गृहाश्रमी ॥ १ ॥ कुचेलनामेति । सतीर्थ्यतां सब्रह्मचारिताम् | त्वदेकरागेण त्वयि प्रेम- लक्षणया भक्त्या | प्रशमी जितेन्द्रियः ॥ १ ॥ समानशीलापि तदीयवल्लभा तथैव नो चित्तजयं समेयुपी । कदाचिदूचे वत वृत्तिलब्धये रमापतिः किं न सखा निषेव्यते ॥ २ ॥ समानशीलेति । यद्यपि समानशीला, तथापि तथैव कुचेलवञ्चित्तजयं धनादिनिःस्पृहत्वं नो समेयुषी प्राप्तवती । वृत्तेर्जीवनोपायस्य लब्धमे रमापतिः । सखेति निषेवौचित्यम् ॥ २ ॥ · इतीरितोऽयं प्रियया क्षुधार्तया जुगुप्समानोऽपि धने मदावहे । तदा त्वदालोकनकौतुकाद् ययौ वहन् पटान्ते पृथुकानुपायनम् || ३ || इतीरित इति । पटान्ते उपायनम् उपहारं बहन् द्वारकां ययौ ॥ ३ ॥ गतोज्यमाचर्यमयीं भवत्पुरीं गृहेषु शैव्याभवनं समेयिवान् । प्रविश्य वैकुण्ठामवाप निर्वृतिं तवातिसम्भावनया तु किं पुनः ॥ ४ ॥ गत इति । आश्चर्यमयीम् अनल्पशिल्पां भवत्पुरी द्वारकां गतोऽयं कुचेलः तत्र गृहेषु व्यष्टसहस्रेषु मध्ये शैब्याया भवनं समेयिवान् प्राप्तः । तवाति - सम्भावनया अतिसम्मानेन निर्वृतिं सुखमबापेति किं पुनरुच्यते ॥ ४ ॥ प्रपूजितं तं प्रियया च वीजितं करे गृहीत्याकथयः पुरा कृतम् । यदिन्धनार्थ गुरुदारचोदितैरपर्तुवर्षं तदमर्षि कानने ॥ ५ ॥ प्रपूजितमिति। अपर्तौ वर्षतुव्यतिरिक्तकाले तत् सुमहद् वर्षममर्षि सो- ढमिति यत्, तत् पुरा कृतं गुरुकुले कृतं कर्माकथयः ॥ ५ ॥ १. 'ति किं न निषेव्यते इत्यूचे उफनती ॥' क. पाठ, २. 'तूक' क्र. पाठ