पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/३००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशकम् ८६] भारतयुद्धवर्णनम् । युद्धादाविति । ऋच्छन् गच्छन् अप्रत्युत्थायिनः सूतस्य रोमहर्षणस्य क्षयकृद् वधं कुर्वन् अथ मुनिवचनात् सुतं तत्पुत्रं तत्पदे मुनिदत्ते ब्रह्मासने । पर्वणि पर्वणि यज्ञघ्नं बल्वलं दैत्यं परिदलयन् निघ्नन् ॥ ९ ॥ संमुद्रौपदेयक्षपणहतधियं द्रौणिमेत्य त्वदुक्त्या तन्मुक्तं ब्राह्ममस्त्रं समदृत विजयो मौलिरत्नं च जह्रे । उच्छियै पाण्डवानां पुनरपि च विशत्युत्तरागर्भमस्त्रे रक्षन्नङ्गुष्ठमात्रः किल जठरमगाश्चऋपाणिर्विभो ! त्वम् ॥ १० ॥ संसुप्तेति । संसुप्तपञ्चद्रौपदेयक्षपणेनं हतवियम् अविदितेतिकर्तव्यताकं द्रौणिम् अश्वत्थामानमेत्य तेन अश्वत्थाम्ना मुक्तं ब्राह्ममस्त्रं त्वदुक्त्या विजयः समहृत संहृतवान्, तस्य मौलिरलं च जेहे । पाण्डवानामुच्छित्त्यै मूलच्छेदा पुनस्तत्प्रयुक्ते अस्त्रे ब्रह्मास्त्रे उत्तरागर्भ विशति सति अङ्गुष्ठमात्रवपुश्चक्रपाणिः सन् त्वमुत्तराया जठरमगाः किल ॥ १० ॥ अथ धर्मजभीष्मयोर्भुक्तिमुक्ती प्रदाय कृतकृत्यो भगवानित्याह -- धर्मोघ धर्मसूनोरभिदधदखिलं छन्दमृत्युः स भीष्म- स्त्वां पश्यन् भक्तिभूम्नैव हि सपदि ययौ निष्कलब्रह्मभूयम् । संयाज्याथाश्वमेधैस्त्रिभिरतिमहितैर्धर्मजं पूर्णकाम सम्माप्तो द्वारकां त्वं पवनपुरपते ! पाहि मां सर्वरोगात् ॥ ११ ॥ धर्मोघमिति । सः भूभारहरणे परमसुहृद् भीष्मः त्वां पश्यन् त्वद्भक्ते- भूम्नैवानपायिन्या भक्त्या निष्कलब्रह्मभूयं निष्कलब्रह्मत्वं मोक्षं सपदि ययौ । अथाश्वमेधैः संयाज्य याजयित्वा ॥ ११ ॥ इति सात्वादिवघवर्णनं भारतयुद्धोपक्रमवर्णनं भारतयुद्धवर्णनं च षडशीतितमं दशकं सैकम् ।