पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/२९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नारायणीये [स्कन्धः जिष्णोरिति । खिन्नं युद्धाद् विमुख तमर्जुनं वीक्ष्य | नित्य एक इति । नित्य- त्वादवध्यत्वम् एकत्वाद् वध्यहन्तुभेदाभावश्च | तत् तस्माद्, यस्मादबध्य आत्मा तस्माद् चघभियं भीष्मद्रोणादिवधे याधर्मभीस्तां प्रोज्य त्यक्ता धर्म्य क्षत्रिय- धर्मादनपेतं युद्धं चरेत्युपदिश्य विश्वासाथै विश्वरूपमैकात्म्य दर्शयन् प्रकृतिं गतसम्मोहताम् अनयथाः प्रापयामासिथ ॥ ६ ॥ २९४ भक्तोत्तंसेऽथ भीष्मे तव धरणिभरक्षेपकृत्यैकसक्ते नित्यं नित्यं विभिन्दत्यवानभृदयुतं प्राप्तसादे च पार्थे । निश्शत्वप्रतिज्ञां विजहदरिवरं धारयन् क्रोधशाली- वाधावन् माञ्जलिं तं नतशिरसमथो वीक्ष्य मोदादपागाः॥ ७ ॥ रक्षितवानित्याह www - भक्तोत्तंस इति । पार्थे भीष्मसायकैः प्राप्तसादे सञ्जातक्लेशे सति शस्त्रं न गृह्णामीति प्रतिज्ञां विजहत् त्यजन् क्रोधशालीव अरिवरं सुदर्शनम् । शस्त्रं ग्राह्या- मीति तत्प्रतिज्ञां सत्यं कर्तुमेव, न तत्र क्रोधशालित्वात् ॥ ७ ॥ भगदत्तप्रयुक्तनारायणास्त्राद् जयद्रथवधप्रतिज्ञायाः, कर्णनागास्त्राच्चार्जुनं 3 युद्धे द्रोणस्य हस्तिस्थिररणभगदत्तरितं वैष्णवास्त्रं वक्षस्याधत चक्रस्थगितरविमहा: प्रार्दयन् सिन्धुराजम् । नागात्रे कर्णमुक्ते क्षितिमवनमयन् केवलं कृत्तमौलिं तत्रे तत्रापि पार्थ किमिव न हि भवान् पाण्डवानामकापीत ||८|| युद्ध इति । चक्रेण स्थगितं तिरस्कृतं रविमहो येन | सिन्धुराजं जयद्रथम् । कृत्तमौलिं खण्डितसकेशकिरीटम् । तत्रे ररक्ष | पाण्डवानां किमिवोपकारं भवान् नाकार्षीत् ॥ ८ ॥ युद्धादौ तीर्थगामी स खलु हलधरो नैमिशक्षेत्रमृच्छ- अप्रत्युत्थायिस्तक्षयकृदय सुतं तत्पदे कल्पयित्वा । यज्ञनं बरवलं पर्वणि परिदलयन् स्नाततीर्थो रणान्ते सम्पाप्तो भीमदुर्योधनरणमशमं वीक्ष्य यातः पुरीं ते ॥ ९ ॥