पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/२९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्वय्यायातेऽथ जाते किल कुरुसदसि द्यूतके संयतायाः ऋन्दन्त्या याज्ञसेन्याः सकरुणमकृथाओलमालामनन्ताम् । अन्नान्तमासशर्वाशजमुनिचकित द्रौपदीचिन्तितोऽथ प्राप्तः शाकानमनन् मुनिगणमकथास्तृतिमन्तं बनान्ते ॥ ४ ॥ त्वयीति । अथ त्वाये इन्द्रप्रस्थाद् द्वारकामायाते सति कुरुसदसि जाते द्यूतके सब्याजे द्यूते संयतायाः दुश्शासनेन गृहीतायाः चेलमालां वस्त्रपरम्पराम् | अन्नान्ते अन्नावसाने प्राप्तात् शर्वीशजाद् दुर्वाससो मुनेश्चकितया शापशङ्कितया द्रौपद्या चिन्तितस्तत्र प्राप्तः पात्रलमं शाकान्नम् अश्नन् मुनिगणं शिष्यवर्गसहितं दुर्वाससं तृप्तिमन्तमकृथाः ॥ ४ ॥ युद्धोद्योगेऽथ मन्त्रे मिलति सति वृतः फल्गुनेन त्वमेकः कौरव्ये दत्तसैन्यः करिपुरमगमो दूत्यकृत् पाण्डवार्थम् । भीष्मद्रोणादिमान्ये तब खल वचने विक्रेते कौरवेण व्यावृण्वन् विश्वरूपं मुनिसदसि पुरीं क्षोभयित्वागतोऽभूः ॥ ५ ॥ युद्धोद्योग इति । अथ युद्धोद्योगे मिलति सति फल्गुनेन त्वमेको मन्त्रे कार्यनिरूपणे वृत: समकालमागते कौरव्ये दत्तसैन्यः दुर्योधनाव दत्तयदुसैन्यः पाण्डवार्थ पाण्डवानामर्धराज्यलब्धये दूत्यं दूतकर्म करोतीति तथा भीष्म- द्रोणादिभिर्मान्ये पूजनीये कौरवेण दुर्योधनेन धिकृते सति मुनिसदसि विश्वात्मकं स्वं रूपं व्यावृण्वन् प्रकाशयन् जिष्णोस्त्वं कृष्ण ! सूतः खलु समरमुखे बन्धुघाते दयालुं खिन्नं तं वीक्ष्य वीरं किमिदमयि सखे ! नित्य एकोऽयमात्मा | को वध्यः कोऽत्र हन्ता तदिह वधभियं प्रोज्जय मय्यर्पितात्मा धर्म्यं युद्धं चरेति प्रकृतिमनयथा दर्शयन् विश्वरूपम् ॥ ६॥